________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१२५ वा रूढेः, असुराः भवनपतिविशेषा भवनपति-व्यन्तरा वा सुरपर्युदासात्, मनुजेन्द्रः चक्रवर्त्यादिरिति । _ [सू० १२८] तिविहा विकुव्वणा पन्नत्ता, तंजहा-बाहिरते पोग्गलए परियातित्ता एगा विकुव्वणा, बाहिरते पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरए पोग्गले परियादित्ता वि अपरियादित्ता वि एगा विकुव्वणा ।
तिविहा विकुव्वणा पन्नत्ता, तंजहा-अब्भंतरए पोग्गले परियाइत्ता एगा विकुव्वणा, अब्भंतरए पोग्गले अपरियाइत्ता एगा विकुव्वणा, अब्भंतरए पोग्गले परियातित्ता वि अपरियाइत्ता वि एगा विकुव्वणा ।
तिविहा विकुव्वणा पन्नत्ता, तंजहा-बाहिरब्भंतरए पोग्गले परियाइत्ता एगा विकुव्वणा, बाहिरब्भंतरए पोग्गले अपरियादित्ता एगा विकुव्वणा, बाहिरब्भंतरए पोग्गले परियाइत्ता वि अपरियाइत्ता वि एगा विकुव्वणा ।
[टी०] त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणानिरूपणायाहतिविहेत्यादिसूत्रत्रयी कण्ठ्या । नवरं बाह्यान् पुद्गलान् भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्त्तिनो वैक्रियसमुद्घातेन पर्यादाय गृहीत्वैका विकुर्वणा ‘क्रियते' इति शेषः, तानपर्यादाय या तु भवधारणीयरूपैव साऽन्या, यत् पुनर्भवधारणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणा भूषाकरणम्, तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कृकलास-सादीनां रक्तत्वफणादिकरणलक्षणेति । एवं द्वितीयसूत्रमपि सुगमम्, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति । तृतीयं तु सूत्रं बाह्याभ्यन्तरपुद्गलयोगेन वाच्यम्, तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनं च, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणम्, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषां चानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति ।
[सू० १२९] तिविहा नेरइया पन्नत्ता, तंजहा-कतिसंचिता, अकतिसंचिता,