________________
१२४
दवए १ दुयए २ दोरवयवो विगारो ३ गुणाण संद्रावो ४ ।
दव्वं भव्वं भावस्स भूयभावं च जं जोगं ॥ [विशेषाव० २८] ति । तथा- भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके ।
तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् ॥ [ ] तथा अनुपयोगो द्रव्यमप्रधानं चेति, तत्र द्रव्यं चासाविन्द्रश्चेति द्रव्येन्द्रः, स च द्विधा आगमतो नोआगमतश्चेत्यादि वृत्तौ, तथा भव्यो योग्य इन्द्रशब्दार्थं ज्ञास्यति यो न तावद्विजानाति स भव्य इति, तस्य शरीरं भव्यशरीरम्, तदेव द्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थः- भाविनी वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वात् मधुघटादिन्यायेनैव तद् बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति। स द्रव्येन्द्रोऽवस्थाभेदेन त्रिविधः, तद्यथाएकभविको बद्धायुष्कोऽभिमुखनाम-गोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको योऽनन्तर एव भवे भावेन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, स चोत्कर्षतः पूर्वकोटीत्रिभागं यावद्, अस्मात् परतः आयुष्कबन्धाभावात्, तथा अभिमुखे संमुखे जघन्योत्कर्षाभ्यां समयान्तर्मुहूर्तानन्तरभावितया नाम-गोत्रे इन्द्रसम्बन्धिनी यस्य स तथा, इति द्रव्येन्द्रः भावेन्द्रस्त्विह त्रिस्थानकानुरोधानोक्तः, तल्लक्षणं चेदम्– भावम् इन्दनक्रियानुभवलक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः, स चासाविन्द्रश्चेति भावेन्द्रः इति। ___ इदानीं भावेन्द्रं त्रिस्थानकावतारेणाह- तओ इंदेत्यादि कण्ठ्यम्, नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः परमेश्वरो ज्ञानेन्द्रः अतिशयवच्छ्रुताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तर: केवली वा, एवं दर्शनेन्द्रः क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो यथाख्यातचारित्रः, एतेषां च भावेन सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः परमार्थतो वेन्द्रत्वात् सकलसंसार्यप्राप्तपूर्वगुणलक्ष्मीलक्षणपरमैश्वर्ययुक्तत्वाद् भावेन्द्रताऽवसेयेति । उक्तमाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बाह्येश्वर्यापेक्षया तदेवाह- तओ इंदेत्यादि भावितार्थम्, नवरं देवा वैमानिका ज्योतिष्क-वैमानिका