________________
११८
ज्ञानाद्यासेवेति यावत, धर्मेण श्रुत-चारित्ररूपेण चरन्तीति धार्मिकाः साधवस्तेषामियं धार्मिकी, सा चासावाराधना च धार्मिकाराधना, केवलिनां श्रुताऽ-वधि-मनःपर्यायकेवलज्ञानिनामियं कैवलिकी, सा चासावाराधना चेति कैवलिकाराधनेति। सुयधम्मेत्यादौ विषयभेदेनाराधनाभेद उक्तः, केवलिआराहणेत्यादौ तु फलभेदेनेति, तत्र अन्तो भवान्तः, तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात, एषा च क्षायिकज्ञानकेवलिनामेव भवति । तथा कल्पेषु देवलोकेषु, न तु ज्योतिश्चारे, विमानानि देवावासविशेषाः, अथवा कल्पाश्च सौधर्मादयो विमानानि च तदुपरिवर्तित्रैवेयकादीनि कल्पविमानानि, तेषूपपत्तिः उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाद्याराधना, एषा च श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोक्ता, परम्परया तु भवान्तक्रियानुपातिन्येवेति ।
[सू० ११९] दो तित्थगरा नीलुप्पलसामा वण्णेणं पन्नत्ता, तंजहा-मुणिसुव्वते चेव अरिट्ठनेमी चेव १॥
दो तित्थगरा पियंगुसामा वण्णेणं पन्नत्ता, तंजहा-मल्ली चेव पासे चेव २॥ दो तित्थगरा पउमगोरा वण्णेणं पन्नत्ता, तंजहा-पउमप्पहे चेव वासुपुजे चेव ३॥
दो तित्थगरा चंदगोरा वण्णेणं पन्नत्ता, तंजहा-चंदप्पभे चेव पुप्फदंते चेव४। [टी०] ज्ञानाधाराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थकरास्तैर्वा सा सम्यक् कृता देशिता वेति तीर्थकरान् द्विस्थानकानुपातेनाह-दो तित्थयरेत्यादि सूत्रचतुष्टयं कण्ठ्यम्, नवरं पद्मं रक्तोत्पलम्, तद्वद् गौरौ पद्मगौरौ, रक्तावित्यर्थः, तथा चन्द्रगौरौ चन्द्रशुभ्रावित्यर्थः ।
[सू० १२०] सच्चप्पवायपुव्वस्स णं दुवे वत्थू पन्नत्ता ।
[टी०] तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थकर्तृत्वाच्च तीर्थकराः, तीर्थं च प्रवचनमतः प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकावतारायाह- सच्चप्पवायेत्यादि, सद्भयो जीवेभ्यो हितः सत्यः संयमः सत्यवचनं वा, स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षेणोद्यते