________________
११९
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । अभिधीयते तत् सत्यप्रवादम्, तच्च तत् पूर्वं च सकलश्रुतात् पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्वम्, तच्च षष्ठम्, तत्परिमाणं च एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु च तद्विभागविशेषोऽध्ययनादिवदिति । _[सू० १२१] पुव्वाभद्दवयाणक्खत्ते दुतारे पन्नत्ते । उत्तराभद्दवयाणक्खत्ते दुतारे पण्णत्ते । एवं पुव्वा फग्गुणी उत्तरा फग्गुणी ।
[टी०] अनन्तरं षष्ठपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभद्रपदानक्षत्रस्वरूपमाहपुव्वेत्यादि कण्ठ्यं । उत्तरेत्यादि कण्ठ्यम्। __[सू० १२२] अंतो णं मणुस्सखेत्तस्स दो समुद्दा पन्नत्ता, तंजहा-लवणे चेव कालोदे चेव ।
[टी०] नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह- अंतो णमित्यादि, अन्तः मध्ये मनुष्यक्षेत्रस्य मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पञ्चचत्वारिंशयोजनलक्षप्रमाणस्य, शेषं कण्ठ्यमिति ।। - [सू० १२३] दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववन्ना, तंजहा-सुभूमे चेव बंभदत्ते चेव ।
[टी०] मनुष्यक्षेत्रप्रस्तावाद्भरतक्षेत्रोत्पन्नोत्तमपुरुषाणां नरकगामितया द्विस्थानकावतारमाह- दो चक्कवट्टीत्यादि, द्वौ चक्रेण रत्नभूतप्रहरणविशेषेण वर्तितुं शीलं ययोस्तौ चक्रवर्त्तिनौ, कामभोग त्ति कामौ च शब्द-रूपे भोगाश्च गन्ध-रस-स्पर्शाः कामभोगाः, न परित्यक्तास्ते यकाभ्यां तौ तथा, कालमासे त्ति कालस्य मरणस्य मासः, उपलक्षणं चैतत् पक्षा-ऽहोरात्रादेः, ततश्च कालमासे, मरणावसर इति भावः, कालं मरणं कृत्वा अधःसप्तम्यां पृथिव्याम्, तमस्तमायामित्यर्थः, अधोग्रहणं विना सप्तमी उपरिष्टाच्चिन्त्यमाना रत्नप्रभाऽपि स्यादित्यधोग्रहणम्, अप्रतिष्ठाने नरके पञ्चानां मध्यमे नैरयिकत्वेनोत्पन्नौ, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत् सागरोपमाणि स्थितिरिति । [सू० १२४] असुरिंदवजियाणं भवणवासीणं देवाणं देसूणाई दो