________________
११७
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।
११७ जह कुंभारो भंडाइं कुणइ पुज्जेयराई लोयस्स । इय गोयं कुणइ जियं लोए पुज्जेयरावत्थं ॥ [ ] इति । उच्चैर्गोत्रं पूज्यत्वनिबन्धनमितरत्तद्विपरीतम् । जीवं चार्थसाधनं चाऽन्तरा एति पततीत्यन्तरायम्, इदं चैवम्जह राया दाणाइ ण कुणइ भंडारिए विकूलम्मि । एवं जेणं जीवो कम्मं तं अंतरायं ति ॥ [ ]
पडुपन्नविणासिए चेव त्ति प्रत्युत्पन्नं वर्तमानलब्धं वस्त्वित्यर्थो विनाशितम् उपहतं येन तत्तथा, पाठान्तरे प्रत्युत्पन्नं विनाशयतीत्येवंशीलं प्रत्युत्पन्नविनाशि, चैवः समुच्चये, इत्येकम्, अन्यच्च पिधत्ते च निरुणद्धि च, आगामिनो लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचिच्च आगमपहं ति, तत्र च लाभमार्गमित्यर्थः ।
[सू० ११७] दुविहा मुच्छा पन्नत्ता, तंजहा-पेजवत्तिता चेव दोसवत्तिता चेव ।
पेज्जवत्तिता मुच्छा दुविहा पन्नत्ता, तंजहा-माया चेव लोभे चेव । दोसवत्तिता मुच्छा दुविहा पन्नत्ता, तंजहा-कोधे चेव माणे चेव । [टी०] इदं चाष्टविधं कर्म मूर्छाजन्यमिति मूर्छास्वरूपमाह- दुविहेत्यादि सूत्रत्रयं कण्ठ्यम्, नवरं मूर्छा मोहः सदसद्विवेकनाशः, प्रेम रागो वृत्तिः वर्त्तनं रूपं प्रत्ययो वा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया वा, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति ।
[सू० ११८] दुविधा आराहणा पन्नत्ता, तंजहा-धम्मिताराहणा चेव केवलिआराहणा चेव।
धम्मियाराहणा दुविहा पन्नत्ता, तंजहा- सुतधम्माराहणा चेव चरित्तधम्माराहणा चेव ।
केवलिआराहणा दुविधा पन्नत्ता, तंजहा-अंतकिरिया चेव कप्पविमाणोववत्तिया चेव ।
[टी०] मूर्होपात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह- दुविहेत्यादि सूत्रत्रयं कण्ठ्यम्, नवरम् आराधनमाराधना ज्ञानादिवस्तुनोऽनुकूलवर्तित्वम्, निरतिचार