________________
११६
[तथा दर्शनं सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीयम्, उक्तं चदसणसीले जीवे दंसणघायं करेइ जं कम्मं । तं पडिहारसमाणं दसणवरणं भवे जीवे ॥ [प्रथमकर्म० १९] इति ।
एवं चेव त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्शनावरणीयम्, सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावना तु पूर्ववदिति ।
तथा वेद्यते अनुभूयत इति वेदनीयम्, सातं सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात्, इतरद् एतद्विपरीतम्, आह च
महुलित्तनिसियकरवालधारजीहाए जारिसं लिहणं । तारिसयं वेयणियं सुहदुहउप्पायगं मुणह ॥ [प्रथमकर्म० २८] इति । मोहयतीति मोहनीयम्, तथाहिजह मज्जपाणमूढो लोए पुरिसो परव्वसो होइ । तह मोहेण वि मूढो जीवो उ परव्वसो होइ ॥ [प्रथमकर्म० ३४] इति । ]
दर्शनं मोहयतीति दर्शनमोहनीयं मिथ्यात्व-मिश्र-सम्यक्त्वभेदम्, चारित्रं सामायिकादि मोहयति यत् कषाय १६ नोकषाय ९ भेदं तत्तथा ।
एति च याति चेत्यायुः, एतद्रूपं चदुक्खं न देइ आउं न वि य सुहं देइ चउसु वि गईसु । दुक्ख-सुहाणाहारं धरेइ देहट्ठियं जीयं ॥ [प्रथमकर्म० ६३] ति ।
अद्धायुः कायस्थितिरूपम्, भावना तु प्राग्वत्, भवायुर्भवस्थितिरिति, विचित्रपर्यायैर्नामयति तन्नाम, एतत्स्वरूपं च
जह चित्तयरो निउणो अणेगरूवाइं कुणइ रूवाई। सोहणमसोहणाई चोक्खमचोक्खेहिं वण्णेहिं ॥ तह नाम पि हु कम्मं अणेगरूवाई कुणइ जीवस्स । सोहणमसोहणाइं इटाणिवाइं लोयस्स ॥ [प्रथमकर्म० ६७-६८] इति । शुभं तीर्थकरादि, अशुभम् अनादेयत्वादीति । पूज्योऽयमित्यादिव्यपदेशरूपां गां वाचं त्रायत इति गोत्रम्, स्वरूपं चास्येदम्