________________
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।
११५ मूढा पं० तं० णाणमूढा चेव', ज्ञानमूढा उदितज्ञानावरणाः, ‘दंसणमूढा चेव' दर्शनमूढा मिथ्यादृष्टय इति ।
[सू० ११६] णाणावरणिज्जे कम्मे दुविधे पन्नत्ते, तंजहा-देसणाणावरणिजे चेव सव्वणाणावरणिजे चेव । दरिसणावरणिजे कम्मे एवं चेव । ___ वेयणिज्जे कम्मे दुविहे पन्नत्ते, तंजहा-सातावेयणिज्जे चेव असातावेयणिजे
चेव । _____मोहणिजे कम्मे दुविहे पन्नत्ते, तंजहा-दसणमोहणिजे चेव चरित्तमोहणिजे चेव ।
आउए कम्मे दुविहे पन्नत्ते, तंजहा-अद्धाउए चेव भवाउए चेव । णामे कम्मे दुविहे पन्नत्ते, तंजहा-सुभणामे चेव असुभणामे चेव । गोत्ते कम्मे दुविहे पन्नत्ते, तंजहा-उच्चागोते चेव णीयागोते चेव ।
अंतराइए कम्मे दुविहे पन्नत्ते, तंजहा-पडुप्पन्नविणासिए चेव, पिहेति य आगामिपहं ।
[टी०] द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिः सूत्रद्वैविध्यमाह- णाणेत्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम्, देशं ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति देशज्ञानावरणीयम्, सर्वं ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयम्, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत् सर्वज्ञानावरणम्, मत्याद्यावरणं तु घनातिच्छादितादित्येषत्प्रभाकल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च
केवलणाणावरणं १ दंसणछक्कं च मोहबारसगं अनन्तानुबन्ध्यादीत्यर्थः । ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं ॥ [बन्धश० ७८] ति । अथवा देशोपघाति-सर्वोपघातिफड्डकापेक्षया देश-सर्वावरणत्वमस्य, यदाहमतिसुयणाणावरणं दंसणमोहं च तदुवघाईणि । तप्फड्डगाइं दुविहाई देस-सव्वोवघाईणि ॥१॥ इत्यादि।