________________
११४
इंगियदेसम्मि सयं चव्विहाहारचायनिप्फन्नं । उव्वत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ॥ [ ] ति ।
सू० ११४] के अयं लोगे ? जीव च्चेव अजीव च्चेव । के अणंता लोए? जीव च्चेव अजीव च्चेव । के सासया लोगे ? जीव च्चेव अजीव च्चेव ।
टी०] इदं च मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह के अयमित्यादि। क इति प्रश्नार्थः, अयमिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ता-ऽप्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च__पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं [ध्यानश० ५३] ति ।
लोकस्वरूपभूतानां च जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह–के अणंतेत्यादि, के अनन्ताः लोके ? इति प्रश्नः, अत्रोत्तरं जीवा अजीवाश्चेति । एत एव च शाश्वता द्रव्यार्थतयेति । __[सू० ११५] दुविधा बोधी पन्नत्ता, तंजहा-णाणबोधी चेव दंसणबोधी चेव। दुविहा बुद्धा पत्नत्ता, तंजहा-णाणबुद्धा चेव दंसणबुद्धा चेव । एवं मोहे, मूढा।
[टी०] ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधि-मोहलक्षणधर्मयोगाद् बुद्धा मूढाश्च भवन्तीति दर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह- दुविहेत्यादि, बोधनं बोधि: जिनधर्मलाभः, ज्ञानबोधि: ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञान-दर्शनयोरन्योन्याविनाभूतत्वादिति । एवं मोहे मूढ त्ति, यथा बोधिर्बुद्धाश्च द्विधोक्ताः तथा मोहो मूढाश्च वाच्या इति, तथाहि- 'दुविहे मोहे पन्नत्ते तं०–णाणमोहे चेव, दंसणमोहे चेव', ज्ञानं मोहयति आच्छादयतीति ज्ञानमोहो ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति । 'दविहा