________________
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।
११३
ति व्यक्तवाचा उक्ते उपादेयस्वरूपतः, पाठान्तरेण पूजिते वा तत्कारिपूजनतः, प्रशस्ते प्रशंसिते श्लाघिते, शंसु स्तुतौ [ पा०धा० ७२८] इति वचनात्, अभ्यनुज्ञाते अनुमते यथा कुरुतेति, वलयमरणेत्ति वलतां संयमान्निवर्त्तमानानां परीषहादिबाधितत्वात् मरणं वलन्मरणम्, वसट्टमरणे त्ति इन्द्रियाणां वशम् अधीनतामृतानां गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशार्त्तमरणमिति ।
एवं णियाणेत्यादि, एवमिति दो मरणाइं समणेणमित्याद्यभिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धि-भोगादिप्रार्थना निदानम्, तत्पूर्वकं मरणं निदानमरणम् । यस्मिन् भवे वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वा पुनम्रियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनर-तिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो भवतीति, उक्तं चमोत्तुं अकम्मभूमगनर - तिरिए सुरगणे य णेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥ [ उत्तरा० नि० २२० ] इति ।
सत्थोवाडणे त्ति शस्त्रेण क्षुरिकादिना अवपाटनं विदारणं स्वशरीरस्य यस्मिंस्तच्छस्त्रावपाटनम् । कारणे पुणेत्यादि, शीलभङ्गरक्षणादौ, पाठान्तरे तु कारणेन, अप्रतिक्रुष्टे अनिवारिते भगवता, वृक्षशाखादावुद्धत्वाद् विहायसि नभसि भवं वैहायसम्, प्राकृतत्वेन तु वेहाणसमित्युक्तमिति, गृधैः स्पृष्टं स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरि - करभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिंस्तद् गृध्रपृष्ठमिति ।
एते द्वे मरणे कारणे जातेऽभ्यनुज्ञाते इति । अप्रशस्तमरणानन्तरं तत् प्रशस्तं भव्यानां भवतीति तदाह– दो मरणाइं इत्यादि, पादपो वृक्षः, तस्येव छिन्नपतितस्योपगमनम् अत्यन्तनिश्चेष्टतया व्यवस्थानं यस्मिंस्तत् पादपोपगमनम्, भक्तं भोजनं तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्याख्यानं वर्जनं यस्मिंस्तद्भक्तप्रत्याख्यानमिति । णीहारिमं ति यद्वसतेरेकदेशे विधीयते तत् ततः शरीरस्य निर्हरणात् निस्सारणान्निर्हारिमम्, यत् पुनर्गिरिकन्दरादौ तदनिर्हरणादनिर्हारिमम् । णियमं ति विभक्तिपरिणामान्नियमादप्रतिकर्म शरीरप्रतिक्रियावर्जं पादपोपगमनमिति ।
इङ्गितमरणं त्विह नोक्तम्, द्विस्थानकानुरोधात्, तल्लक्षणं चेदम्