________________
११२
त्ति भाषकाः भाषापर्याप्तिपर्याप्ताः, अभाषकाः तदपर्याप्तका अयोगि-सिद्धाः ११ । चरम त्ति चरमा येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, न निर्वास्यन्तीत्यर्थः १२ । ससरीरि त्ति सह यथासम्भवं पञ्चविधशरीरेण ये ते इन्समासान्तविधेः सशरीरिणः संसारिणः, अशरीरिणस्तु शरीरमेषामस्तीति शरीरिणस्तन्निषेधादशरीरिणः सिद्धाः १३ ॥
[सू० ११३] दो मरणाइं समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णो णिच्चं वन्नियाई णो णिच्चं कित्तियाइं णो णिच्चं पूइयाइं णो णिच्चं पसत्थाई णो णिच्चं अब्भणुण्णाताई भवंति, तंजहा-वलयमरणे चेव वसट्टमरणे चेव १॥ एवं णियाणमरणे चेव तब्भवमरणे चेव २। गिरिपडणे चेव तरुपडणे चेव ३। जलप्पवेसे चेव जलणप्पवेसे चेव ४। विसभक्खणे चेव सत्थोवाडणे चेव ५। ___दो मरणाइं जाव णो णिच्चं अब्भणुन्नाताई भवंति, कारणे पुण अप्पडिकुट्ठाई, तंजहा-वेहाणसे चेव गिद्धपट्टे चेव ६।
दो मरणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिच्चं वनियाइं जाव अब्भणुण्णाताई भवंति, तंजहा-पाओवगमणे चेव भत्तपच्चक्खाणे चेव ७। पाओवगमणे दुविहे पन्नत्ते, तंजहा-णीहारिमे चेव अनीहारिमे चेव, णियमं अपडिकम्मे ८। भत्तपच्चक्खाणे दुविहे पन्नत्ते, तंजहा-णीहारिमे चेव अणीहारिमे चेव, णियमं सपडिकम्मे ९।
[टी०] एते च संसारिणः सिद्धाश्च मरणा-ऽमरणधर्मकाः, अप्रशस्त-प्रशस्तमरणतश्चैते भवन्तीति प्रशस्ता-ऽप्रशस्तमरणनिरूपणाय नवसूत्रीमाह-दो मरणाइमित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण, श्राम्यन्ति तपस्यन्तीति श्रमणास्तेषाम्, ते च शाक्यादयोऽपि स्युः, यथोक्तम्- णिग्गंथ १ सक्क २ तावस ३ गेरुय ४ आजीव ५ पंचहा समणा [पिण्डनि० ४४५] इति, तद्व्यवच्छेदार्थमाह- निर्गता ग्रन्थाद् बाह्याभ्यन्तरादिति निर्ग्रन्थाः साधवस्तेषां नो नित्यं सदा वर्णिते तांस्तयोः प्रवर्त्तयितुमुपादेयफलतया नाभिहिते, कीर्त्तिते नामतः संशब्दिते उपादेयधिया, बुइयाई