________________
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः।
१११ [टी०] उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आहदुविहेत्यादि कण्ठ्यमिति । ननु संसारिण एव जीवा उतान्येऽपि सन्ति?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह- दुविहा सव्वेत्यादि, कण्ठ्या चेयम्, नवरं सेन्द्रिया: संसारिणः, अनिन्द्रियाः अपर्याप्तक-केवलि-सिद्धाः २ । एवं एस त्ति, एवं सिद्धादिसूत्रोक्तक्रमेण दुविहा सव्वजीवेत्यादिलक्षणेन एषा वक्ष्यमाणा प्रस्तुतसूत्रसङ्ग्रहगाथा स्पर्शनीया अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह- जाव ससरीरी चेव असरीरी चेव त्ति । सिद्ध गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं काए त्ति, कायाः पृथिव्यादयस्तानाश्रित्य सर्वजीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवम्-‘सकायच्चेव अकायच्चेव', सकायाः पृथिव्यादिषड्विधकायविशिष्टाः संसारिणः, अकायास्तद्विलक्षणाः सिद्धाः ३, सयोगाः संसारिणः, अयोगा अयोगिनः सिद्धाश्च ४, वेदे त्ति सवेदाः संसारिणः, अवेदाः अनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च ५, कसाय त्ति, सकषायाः सूक्ष्मसम्परायान्ताः, अकषायाः उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, लेसा यत्ति सलेश्याः सयोग्यन्ताः संसारिणः, अलेश्याः अयोगिनः सिद्धाश्च ७, नाणे त्ति ज्ञानिनः सम्यग्दृष्टयोऽज्ञानिनो मिथ्यादृष्टयः ८ । ___उवओगि त्ति, ‘सागारोवउत्ते च्वेय अणगारोवउत्ते च्चेय' त्ति सहाऽऽकारेण विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारः, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ताः, अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते चजं सामन्नग्गहणं भावाणं नेय कटु आगारं । अविसेसिऊण अत्थे दंसणमिति वुच्चए समए ॥ [ ] त्ति । तेनोपयुक्ता अनाकारोपयुक्ता इति ९, आहारे त्ति, आहारका ओजो-लोमकवलभेदभिन्नाहारविशेषग्राहिणः, अनाहारकास्तु
विग्गहगइमावण्णा १ केवलिणो समोहया २ अजोगी य ३ । सिद्धा य ४ अणाहारा सेसा आहारगा जीवा ॥ [जीवसमासे ८२] इति १० । भास