________________
११०
भवति- स काल एकं पल्योपमं सूक्ष्म व्यावहारिकं चोच्यत इति । एएसिं गाहा, एतेषाम् उक्तरूपाणां सूक्ष्मबादराणां पल्यानां पल्योपमानां कोटीकोटी भवेद् दशगुणिता यदिति गम्यते, दश कोटीकोट्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत् परिमाणमिति ।
[सू० १११] दुविहे कोधे पन्नत्ते, तंजहा-आयपतिट्ठिते चेव परपइट्ठिए चेव, एवं नेरइयाणं जाव वेमाणियाणं । एवं जाव मिच्छादसणसल्ले ।
[टी०] एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिनिरूप्यते तत्स्वरूपनिरूपणायाहदुविहे कोहे इत्यादि । आत्मापराधादैहिकापायदर्शनादात्मनि प्रतिष्ठितः आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः उदीरितः परस्मिन् वा प्रतिष्ठितो जातः परप्रतिष्ठित इति । एवमिति यथा सामान्यतो द्विधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्म-परप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकचतुर्विंशतिदण्डकेनाऽध्येतव्यानि, अत एवाह– एवं जाव मिच्छादंसणसल्ले त्ति, एतेषां च मानादीनां स्वविकल्पजात-परजनितत्वाभ्यां स्वात्मवर्तिपरात्मवर्त्तित्वाभ्यां वा स्व-परप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति ।
[सू० ११२] दुविहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-तसा चेव थावरा चेव ।
दुविधा सव्वजीवा पन्नत्ता, तंजहा-सिद्धा चेव असिद्धा चेव । दुविहा सव्वजीवा पण्णत्ता, तंजहा-सइंदिया चेव अणिंदिया चेव । एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव -
सिद्ध-सइंदिय-काए, जोगे वेदे कसाय लेसा य । णाणुवओगाहारे, भासग-चरिमे य ससरीरी ॥७॥