________________
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।
१०९ भागमात्रसूक्ष्मपनकावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत् सूक्ष्ममुद्धारपल्योपमम्, तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीप-समुद्राः परिसङ्ख्यायन्ते, आह चउद्धारसागराणं अड्डाइजाण जत्तिया समया । दुगुणादुगुणपवित्थर दीवोदहि रज्जु एवइया ॥ [बृहत्क्षेत्र० ११३] इति ।
अद्धापल्योपम-सागरोपमे अपि सूक्ष्म-बादरभेदे एवमेव, नवरं वर्षशते वर्षशते वालस्य वालासङ्ख्येयखण्डस्य चोद्धार इति, अनेन नारकादिस्थितयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव प्रदेशा उध्रियन्ते स कालो व्यावहारिक इति, यावता च वालाग्रासङ्ख्यातखण्डैः स्पृष्टाश्च अस्पृष्टाश्चोध्रियन्ते स कालः सूक्ष्म इति, एते च प्ररूपणामात्रविषये एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते, बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति, तदेवमिह प्रक्रमे उद्धार-क्षेत्रौपमिकयोनिरुपयोगत्वादद्धौपमिकस्यैव चोपयोगित्वाद् अद्धति विशेषणं सूत्रे उपात्तमिति । अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकार:- से किं तमित्यादि, अथ किं तत् पल्योपमं यदद्धौपमिकतया निर्दिष्टमिति प्रश्ने निर्वचनमेतदनुवादेनाह पलिओवमे त्ति, पल्योपममेवं भवतीति वाक्यशेषः ।
जं गाहा, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात् सर्वतो यद्योजनप्रमाणं पल्यं धान्यस्थानविशेषः एकाह एव एकाहिकस्तेन प्ररूढानां वृद्धानाम्, मुण्डिते शिरसि एकेनाह्ना यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानां वालाग्राणां कोटयो विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि, बादरपल्योपमापेक्षया तु कोटयः सङ्ख्याविशेषाः, तासां किं भवेत् ? भरितं भृतम्, कथमित्याहनिरन्तरनिचितं निबिडतया निचयवत् कृतमिति । वास गाहा, एतस्मात् पल्यावर्षशते वर्षशतेऽतिक्रान्ते सति, प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् वालाग्रे असङ्ख्येयखण्डे चाऽपहृते उद्धृते सति यः कालो यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह- उपमा उपमेयः, कस्येत्याह- एकस्य पल्यस्य, इदमुक्तं