________________
१०८
इत्यादि दृश्यं यावन्मनःपर्यवज्ञानमुत्पादयेदिति, केवलज्ञानं तु क्षयादेव भवतीति तन्नोक्तम् । इह च यद्यपि बोध्यादयः सम्यक्त्व-चारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणा-ऽऽभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः पदद्वयेनाऽतः स एव व्याख्यात इति ।
[सू० ११०] दुविहे अद्धोवमिए पन्नत्ते, तंजहा-पलिओवमे चेव सागरोवमे चेव । से किं तं पलिओवमे ? पलिओवमे
जं जोयणवित्थिन्नं, पल्लं एगाहियप्परूढाणं । होज निरंतरणिचितं, भरितं वालग्गकोडीणं ॥४॥ वाससते वाससते, एक्कक्के अवहडंमि जो कालो । सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स ॥५॥ एतेसिं पल्लाणं, कोडाकोडी हवेज दसगुणिता । तं सागरोवमस्स उ, एगस्स भवे परीमाणं ॥६॥ [टी०] बोध्याभिनिबोधिकश्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयप्ररूपणामाह- दुविहे अद्धो इत्यादि । उपमा औपम्यम्, तया निवृत्तमौपमिकम् अद्धा कालस्तद्विषयमौपमिकमद्धौपमिकम, उपमानमन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धौपमिकमिति भावः, तच्च द्विधा- पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत् पल्यस्तेनोपमा यस्मिंस्तत् पल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत् सागरोपमम्, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपम-सागरोपमरूपमौपमिकं सामान्यत उद्धाराऽद्धा-क्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहार-सूक्ष्मभेदाद् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायाम-विष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटिभिः व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येय