SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १०२ सादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदाः समयादयः सा च तद्धर्मः, धर्मश्च धर्मिणो नात्यन्तं भेदवान्, अत्यन्तं भेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदाविशेषाद्, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसरविवरान्तरतः किमपि शुक्लं पश्यति तदा 'किमियं पताका किं वा बलाके'त्येवं प्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादिति, इह त्वभेदनयाश्रयणाज्जीवा इ येत्याधुक्तम्, इह च समया-ऽऽवलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो दृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति । आणापाणू इत्यादि, आनप्राणाविति उच्छ्वास-निःश्वासकालः सङ्ख्यातावलिकाप्रमाणः,आह चहट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणु त्ति वुच्चइ ॥ [जम्बूद्वीपप्र० २।१, बृहत्सं० २०७] त्ति । तथा स्तोकाः सप्तोच्छ्वासनिःश्वासप्रमाणाः २, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्तस्तोकप्रमाणा लवाः ३, मुहूर्ताः सप्तसप्ततिलवप्रमाणाः, अहोरत्त ति, अहोरात्राः त्रिंशन्मुहूर्तप्रमाणाः ४, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः ५, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि ६, संवत्सरा अयनद्वयमानाः, युगानि पञ्च संवत्सराणि ७, वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानम् पुव्वस्स उ परिमाणं सयरिं खलु होंति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं ॥ [बृहत्सं० ३१६] ति ७०५६०००००००००० । पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं सङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र करणगाथाइच्छियठाणेण गुणं पणसुन्नं चउरसीतिगुणितं च । काऊणं तइवारे पुव्वंगाईण मुण संखं ॥ [ ]
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy