SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । १०१ ति वा समुद्दा ति वा १७, वेला ति वा वेतिता ति वा १८, दारा ति वा तोरणा ति वा १९, णेरतिता ति वा णेरतितावासा ति वा २०, जाव वेमाणिया ति वा वेमाणियावासा ति वा ४३, कप्पा ति वा कप्पविमाणावासा ति वा ४४, वासा ति वा वासधरपव्वता ति वा ४५, कूडा ति वा कूडागारा ति वा ४६, विजया ति वा रायहाणी ति वा ४७, जीवा ति या अजीवा ति या पवुच्चति । छाया ति वा आतवा ति वा १, जोसिणा ति वा अंधगारा ति वा २, ओमाणा ति वा उम्माणा ति वा ३, अइयाणगिहा ति वा उज्जाणगिहा ति वा ४, अवलिंबा ति वा सणिप्पवाता ति वा ५, जीवा ति या अजीवा ति या पवुच्चइ । दो रासी पन्नत्ता, तंजहा-जीवरासी चेव अजीवरासी चेव । [टी०] उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य च जीवा-ऽजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहाऽयं सम्बन्धः- पूर्वस्मिन् हि पुद्गल-जीवधर्मा उक्ताः, इह तु सर्वं जीवा-ऽजीवात्मकमिति वाच्यम् । अनेन सम्बन्धेनायातस्याऽस्योद्देशकस्येमानि पञ्चविंशतिरादिसूत्राणि समयेत्यादीनि । एषां चानन्तरसूत्रेणायमभिसम्बन्धः- पूर्वत्र जीवविशेषाणामुच्चत्वलक्षणो धर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिः स्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषां कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदाधुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् बहुवचनमित्याहसमया इ वा इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत् कालवस्तु तदविगानेन जीवा इति च, जीवपर्यायत्वात्, पर्याय-पर्यायिणोश्च कथञ्चिदभेदात्, तथा अजीवानां पुद्गलादीनां पर्यायत्वादजीवा इति च, चकारौ समुच्चयार्थी, दीर्घता च प्राकृतत्वात्, प्रोच्यते अभिधीयत इति, न जीवादिव्यतिरेकिणः समयादयः, तथाहि- जीवाजीवानां
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy