________________
द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । शीर्षप्रहेलिकान्तः सांव्यवहारिकः सङ्ख्यातकालः, तेन च प्रथमपृथिवीनारकाणां भवनपति-व्यन्तराणां भरतैरवतेषु सुषमदुःषमायाः पश्चिमे भागे नर-तिरश्चां चायुर्मीयत इति । किञ्च, शीर्षप्रहेलिकायाः परतोऽप्यस्ति सङ्ख्यातः कालः, स चानतिशायिनां न व्यवहारविषय इति कृत्वौपम्ये प्रक्षिप्तः, अत एव शीर्षप्रहेलिकायाः परतः पल्योपमाडुपन्यासः, तत्र पल्येनोपमा येषु तानि पल्योपमानि असङ्ख्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोट्य उत्सर्पिणी, एवमेवाऽवसर्पिणीति ।
कालविशेषवद् ग्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह– गामेत्यादि, इह च प्रत्येकं जीवा इ येत्यादिरालापोऽध्येतव्यो, ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि १, निगमाः वणिग्निवासाः, राजधान्यो यासु राजानोऽभिषिच्यन्ते २, खेटानि धूलीप्राकारोपेतानि, कर्बटानि कुनगराणि ३, मडम्बानि सर्वतोऽर्द्धयोजनात् परतोऽवस्थितग्रामाणि, द्रोणमुखानि येषां जल-स्थलपथावुभावपि स्तः ४, पत्तनानि येषु जल-स्थलपथयोरन्यतरेण पर्याहारप्रवेशः, आकरा लोहाद्युत्पत्तिभूमयः ५, आश्रमाः तीर्थस्थानानि, संवाहाः समभूमौ कृषिं कृत्वा येषु दुर्गभूमिभूतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति ६, सन्निवेशाः सार्थकटकादेः, घोषा गोष्ठानि ७, आरामा विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु स्त्रीसहितानां पुंसां रमणस्थानभूता इति, उद्यानानि पत्र-पुष्प-फल-च्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं गमनं येष्विति ८, वनानीत्येकजातीयवृक्षाणि, वनखण्डा: अनेकजातीयोत्तमवृक्षाः ९, वापी चतुरस्रा, पुष्करिणी वृत्ता पुष्करवती वेति १०, सरांसि जलाशयविशेषाः, सरःपङ्क्तयः सरसां पद्धतयः ११, अगड त्ति अवटाः कूपाः, तडागादीनि प्रतीतानि १२, पृथिवी रत्नप्रभादिका, उदधिः तदधो घनोदधिः १४, वातस्कन्धाः घनवात-तनुवाता इतरे वा, अवकाशान्तराणि वातस्कन्धानामधस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात्