________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।
जबूं इत्यादि सुषमायां पञ्चमारके होत्थ त्ति बभूवुः । पालयित्थ त्ति पालितवन्तः पूर्वसूत्राद्विशेषः पालयिष्यन्तीत्यपि।
[सू० ९३] जंबूदीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो अरहंतवंसा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा ७, एवं चक्कवहिवंसा ८, दसारवंसा ९।
जंबू [दीवे दीवे] भरहेरवतेसु [वासेसु] एगसमए दो अरहंता उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा १०, एवं चक्कवट्टि ११, एवं बलदेवा १२, एवं वासुदेवा जाव उप्पजिस्संति वा १३।
[टी०] जंबू इत्यादि, एगजुगे त्ति पञ्चाब्दिकः कालविशेषो युगम्, तत्रैकस्मिन्, तस्याप्येकस्मिन् समये, एगसमए एगजुगे इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धाद्, अन्यथा वा भावनीयेति । द्वावर्हतां वंशौ प्रवाहावेको भरतप्रभवोऽन्य ऐरवतप्रभव इति ७। दसार त्ति दसाराः, समयभाषया वासुदेवाः९ ।
[सू० ९४] जंबूदीवे दीवे दोसु कुरासु मणुया सता सुसमसुसममुत्तमं इडिं पत्ता पच्चणुभवमाणा विहरंति, तंजहा-देवकुराए चेव उत्तरकुराए चेव १४। जंबूदीवे दीवे दोसु वासेसु मणुया सता सुसममुत्तमं इढेि पत्ता पच्चणुभवमाणा विहरंति, तंजहा-हरिवासे चेव रम्मगवासे चेव १५। जंबूदीवे दीवे दोसु वासेसु मणुया सता सुसमदूसममुत्तमं इट्टि पत्ता पच्चणुभवमाणा विहरंति, तंजहा-हेमवते चेव हेरन्नवते चेव १६। जंबूदीवे दीवे दोसु खेत्तेसु मणुया सता दूसमसुसममुत्तमं इढेि पत्ता पच्चणुभवमाणा विहरंति, तंजहा-पुव्वविदेहे चेव अवरविदेहे चेव १७। जंबूदीवे दीवे दोसु वासेसु मणुया छव्विहं पि कालं पच्चणुभवमाणा विहरंति, तंजहा-भरहे चेव एरवते चेव १८।
[टी०] जंबू इत्यादि, सदा सर्वदा सुसमसुसमं ति प्रथमारकानुभागः सुषमसुषमा तस्याः सम्बन्धिनी या सा सुषमसुषमैव, ताम् उत्तमर्द्धिं प्रधानविभूतिम् उच्चस्त्वाऽऽयु:-कल्पवृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो वेदयन्तः, न सत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमां कालविशेषं प्राप्ता: अधिगता उत्तमामृद्धिं