________________
८७
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । द्विक्रोशोच्छ्रितो वज्रमयो गङ्गादेवीभवनेन क्रोशायामेन तदर्द्धविष्कम्भेन किञ्चिदूनक्रोशोच्चेनाऽनेकस्तम्भशतसन्निविष्टेनाऽलङ्कृतोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवहे सक्रोशषड्योजनविष्कम्भाऽर्द्धक्रोशोद्वेधा गङ्गा उत्तरभरतार्द्ध विभजन्ती सप्तभिः नदीसहस्रैरापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिर्नदीसहस्रैः समग्रा मुखे सार्द्धद्विषष्टियोजनविष्कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्र प्रविशति स गङ्गाप्रपातह्रदः, एतदनुसारेण सिन्धुप्रपातह्रदोऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायाम-विष्कम्भो-द्वेध-परिणाहै वनीयाविति, सर्व एव प्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यच्चेह वर्षधरनद्यधिकारे गङ्गा-सिन्धुरोहितांशानां तथा सुवर्णकूला-रक्ता-रक्तवतीनां नाभिधानं तद् द्विस्थानकानुरोधात्, तासां हि एकैकस्मात् पर्वतात् त्रयं त्रयं प्रवहतीति द्विस्थानके नावतार इति । एवमित्यादि, एवमिति प्राग्वत् रोहियप्पवायद्दहे चेव त्ति रोहिद् उक्तस्वरूपा यत्र पतति यश्च सविंशतिकं योजनशतमायाम-विष्कम्भाभ्यां किञ्चिन्न्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागे रोहिद्वीपः षोडशयोजनायाम-विष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपः जलान्ताद् द्विक्रोशोच्छितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहितप्रपातहूद इति । रोहियंसप्पवायदहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्मह्रदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेके उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्धत्रयोदशयोजनविष्कम्भया क्रोशबाहल्यया जिबिकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहित्प्रपातकुण्डसमानमानः यस्य च मध्ये रोहितांशाद्वीपो रोहिद्द्वीपसमानमानः रोहितांशाभवनेन प्रागुक्तमानेनाऽलङ्कृतः, यतश्च रोहितांशा नदी रोहिन्नदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं प्रविशति स रोहितांशाप्रपातहूद इति ।।
जंबू इत्यादि, हरिप्पवायद्दहे इत्यादि सर्वं वृत्तितो ज्ञेयं। [सू० ९१] जंबूमंदरदाहिणेणं भरहे वासे दो महानईओ पन्नत्ताओ बहु[सम]