________________
ऐरण्यवद्वर्षं विभजन्ती रोहिनदीतुल्यवक्तव्या अवरसमुद्रं गच्छतीति ।
[सू० ९०] जंबूमंदरदाहिणेणं भरहे वासे दो पवायदहा पन्नत्ता बहुसम [जाव] तंजहा-गंगप्पवायद्दहे चेव सिंधुप्पवायद्दहे चेव । एवं हेमवए वासे दो पवायदहा पन्नत्ता बहु [सम जाव] तंजहा-रोहियप्पवातद्दहे चेव रोहियंसप्पवातद्दहे चेव २॥
जंबूमंदरदाहिणेणं हरिवासे वासे दो पवायदहा पन्नत्ता बहुसम [जाव तंजहा-हरिपवातद्दहे चेव हरिकंतपवातद्दहे चेव १।
जंबूमंदरउत्तरदाहिणेणं महाविदेहे वासे दो पवायदहा पन्नत्ता बहुसम जाव सीतप्पवातद्दहे चेव सीतोदप्पवायद्दहे चेव १॥ __जंबूमंदरउत्तरेणं रम्मए वासे दो पवायदहा पन्नत्ता बहु[सम जाव] नरकंतप्पवायदहे चेव णारीकंतप्पवायद्दहे चेव । एवं हेरन्नवते वासे दो पवायदहा पन्नत्ता बहु[सम जाव] सुवन्नकूलप्पवायदहे चेव रुप्पकूलप्पवायदहे चेव ।
जंबूमंदरउत्तरेणं एरवए वासे दो पवायदहा पन्नत्ता बहु[सम] जाव रत्तप्पवायदहे चेव रत्तावइप्पवातद्दहे चेव १।
[टी०] जंबू इत्यादि, पवायदह त्ति प्रपतनं प्रपातस्तदुपलक्षितौ ह्रदौ प्रपातह्रदौ, इह यत्र हिमवदादे गात् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातह्रदः प्रपातकुण्डमित्यर्थः, गंगापवायदहे चेव त्ति हिमवद्वर्षधरपर्वतोपरिवर्तिपद्महृदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पञ्च योजनशतानि गत्वा गङ्गावर्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया सक्रोशषड्योजनविष्कम्भयाऽर्धक्रोशबाहल्यया जिढिकया युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन च मुक्तावलीकल्पेन प्रपातेन यत्र प्रपतति यश्च षष्टियोजनायामविष्कम्भः किञ्चिन्न्यूननवत्युत्तरशतपरिक्षेपो दशयोजनोद्वेधो नानामणिनिबद्धः यस्य च पूर्वापरदक्षिणासु त्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणाः मध्यभागे च गङ्गादेवीद्वीपोऽष्टयोजनायामविष्कम्भः सातिरेकपञ्चविंशतिपरिक्षेपः जलान्ताद्