________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । वेदिकादियुक्तानीति, हरिकान्ता तु महापद्महूदादेवोत्तरतोरणेन निर्गत्य पञ्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराभिमुखी पर्वतेन गत्वा सातिरेकयोजनशतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव पतति, मकरमुखजिबिकाप्रमाणं पूर्वोक्तद्विगुणम्, ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षमध्यभागवर्तिनं गन्धापातिवृत्तवैताढ्यं योजनेनाऽसम्प्राप्ता पश्चिमाभिमुखीभूय षट्पञ्चाशता सरित्सहनैः समग्रा समुद्रमतिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिनदीतो द्विगुणेति । ___ एवमित्यादि, एवमिति 'जंबूदीवे' इत्याद्यभिलापसूचनार्थः । हरिन्महानदी तिगिंच्छिहदस्य दक्षिणतोरणेन निर्गत्य सप्त योजनसहस्राणि चत्वारि चैकविंशत्यधिकानि योजनशतानि सातिरेकाणि दक्षिणाभिमुखी पर्वतेन गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन हरित्कुण्डे निपत्य पूर्वसमुद्रे प्रपतति, शेष हरिकान्तासमानमिति । शीतोदा महानदी तिगिंच्छिहृदस्योत्तरतोरणेन निर्गत्य तावन्त्येव योजनसहस्राणि गिरिणा उत्तराभिमुखी गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, जिबिका मकरमुखस्य चत्वारि योजनानि आयामेन पञ्चाशद्विष्कम्भेण योजनं बाहल्येन, कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् विभजन्ती चित्र-विचित्रकूटौ पर्वतौ निषधहूदादींश्च पञ्च ह्रदान् द्विधा कुर्वती चतुरशीत्या नदीसहस्रैरापूर्यमाणा भद्रशालवनमध्येन मेरुं योजनद्वयेनाप्राप्ता प्रत्यङ्मुखी आवर्तमाना अधो विद्युत्प्रभं वक्षारपर्वतं दारयित्वा मेरोरपरतोऽपरविदेहमध्यभागेन एकै कस्माद् विजयादष्टाविंशत्या अष्टाविंशत्या नदीसहस्रैरापूर्यमाणा अधो जयन्तद्वारस्य अपरसमुद्रं प्रविशतीति, शीतोदा हि प्रवहे पञ्चाशद्योजनविष्कम्भा योजनोद्वेधा [ ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा दशयोजनोद्वेधेति ।।
जंबू इत्यादि, शीता महानदी केसरिहृदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति । नारिकान्ता तु उत्तरतोरणेन निर्गत्य कुण्डे पतित्वा हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापरसमुद्रं प्रविशतीति ।
एवमित्यादि, नरकान्ता महापुण्डरीकहूदादक्षिणतोरणेन निर्गत्य रम्यकवर्षं विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्य