________________
हिमवत उपरि बहुमध्यभागे पद्महूद एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायतौ सहस्रं पञ्चशतविस्तृतौ चतुष्कोणौ दशयोजनावगाढौ रजतकूलौ वज्रमयपाषाणौ तपनीयतलौ सुवर्णमध्यरजतमणिवालुकौ चतुर्दशमणिसोपानौ शुभावतारौ तोरण-ध्वजच्छत्रादिविभूषितौ नीलोत्पल-पुण्डरीकादिचितौ विचित्रशकुनि-मत्स्यविचरितौ षट्पदपटलोपभोग्याविति । तत्थ णं ति तयोः महाहृदयो· देवते परिवसतः, पद्महूदे श्रीः, पौण्डरीके च लक्ष्मीः, ते च भवनपतिनिकायाभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतो भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपञ्चमपल्योपमान्यायुर्भवतीति, शेषं ह्रदायामादि सर्वं वृत्तितो ज्ञेयम्।
[सू० ८९] जंबूमंदरदाहिणेणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दहाओ दो महाणदीओ पवहंति, तंजहा-रोहिय च्वेव हरिकंत च्चेव । एवं निसढाओ वासहरपव्वताओ तिगिंच्छिद्दहाओ दहाओ दो महाणईओ पवहंति, तंजहा-हरि च्चेव सीतोत च्चेव २।
जंबूमंदरउत्तरेणं नीलवंताओ वासधरपव्वताओ केसरिद्दहाओ दहाओ दो महानईओ पवहंति, तंजहा-सीता चेव नारिकंता चेव । एवं रुप्पीओ वासहरपव्वताओ महापुंडरीयद्दहाओ दहाओ दो महानईओ पवहंति, तंजहाणरकंता चेव रुप्पकूला चेव २॥
[टी०] जंबू इत्यादि, तत्र रोहिनदी महापद्महदादक्षिणतोरणेन निर्गत्य षोडश पञ्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गत्वा हाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेण क्रोशं बाहल्येन, रोहित्प्रपातकुण्डाच्च दक्षिणतोरणेन निर्गत्य हैमवतवर्षमध्यभागवर्त्तिनं शब्दापातिवृत्तवैताढ्यमर्द्धयोजनेनाऽप्राप्याष्टाविंशत्या नदीसहस्रैः संयुज्याधो जगतीं विदार्य पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिनदी हि प्रवाहेऽर्द्धत्रयोदशयोजनविष्कम्भा क्रोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एवं सर्वा महानद्यः पर्वताः कूटानि च