________________
मानार्थार्णवसंक्षेपे गर्दव तु गरुडे सूर्ये तेजस्यपि पुमानय । योः स्यान्मक्षिकामेदे पक्षिमात्रेऽप्यथ स्त्रियाम् ॥ ३४१ ॥ तृणधान्यविशेषेऽथ काचने म्यान्नृशण्डयोः । प्राहोऽवहारसंज्ञे द्वे यादोभेरे पुमांस्तु सः ॥ ३४२ ।। निर्बन्ध इति केऽप्याहुराचार्यस्य प्रयोगतः । मुनित्रयमते त्वस्य साधुत्वं नोपलभ्यते ॥ ३४३ ॥ अत्रार्थे ग्राम्यवाक् तु विप्रोमीणे स्त्री लतान्तरे । घोषसंज्ञे स्वल्पफले ग्राम्यायो गालवाङ् नरि ॥ ३४४ ।। गलने मदनाभिख्यपादपे तत्फले तु न । बडिशेऽप्यथ गानं क्ली गीतौ शब्देऽप्यथ स्त्रियाम् ॥ ३४१ ॥ पौष्ठपद्यां पौर्णमास्यां गानी गातस्तु पुंस्ययम् । अन्ने स्त्री तु पृथिव्यां स्याद् देवजात्यन्तरे पुनः ॥ ३४.६ ॥ गन्धर्वात्ये द्वयोग्राहिशब्दस्तु निर्ग्रहीतरि । कपित्थे तु पुमान ना तु गिरिः स्यान्नगमेघयोः ॥ ३४७ ॥ प्लसे गिरीयकक्रीडागुडके कन्दुके परे । गवां च व्याधिभेदे स्याद् गृणातौ गिरतावपि ॥ ३४८ ॥ गीणौँ तु स्यथ गीतं क्ली गाने गानस्य कर्मणि। .... त्रि स्त्री तु गीता योगस्य पट्टेऽन्यस्त्वाह कश्चन ॥ ३४९ ॥ योगग्रन्थान्तरे गुञ्जा त्वक्ली स्याद् गुञ्जने स्त्रियाम् । कृष्णलायां वाद्यभेदेऽप्यथ गुल्मो नृशण्डयोः ॥ ३५० ॥ . . हृदयप्रन्थिसंज्ञे स्याद् व्याधिभेदेऽपि वीरुधि । बलानां सज्जने सैन्यभेदे सभ्येऽपि केचन ।। ३५१॥ घट्टे च शुल्कसंज्ञेऽन्ये त्वायस्थाने प्रचक्षते । गुच्छो ना स्तबके धान्यस्तम्बे वीरुत्सु सप्तसु ॥ ३५२ ॥
1. 'रविदग्पेल' ग. पाठः, २. 'सं' क. ग. घ. ह. पाठः,