SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ , चतुरक्षरकाण्डे मामालिकाध्यायः। गृह्यते वस्त्रमाल्यादि बलादाकृष्य तत्र यत् । यस्य प्रमाणमुष्टीनां पटपश्चाशच्छतद्वयम् ॥ ४०३ ॥ तत्रापि तण्डुलाद्येऽथ पूर्णे पात्रे जलादिना। लिङ्गत्रयं स्यादत्राणे पूर्णानकपदं पुनः ।। ४०४ ॥ उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्र क्ली न तु स्त्री पूर्ण आनके ॥ ४०५ ॥ पूर्णकोशा प्रशाया जागिर स्यादोपधौ स्त्रियाम् । अपूपे तु पुमानत्र समासादीनि पूर्ववत् ॥ ४०६ ॥ पूर्णकूटो द्वयोः कूटपूरिसंज्ञे विहङ्गमे । चापसंज्ञे च लिङ्गार्थसमासाः पूर्ववत् स्मृताः ॥ ४०७ ॥ पूतिपुष्पी मातुलुङ्गयां स्त्री समासादि पूर्ववत् । स्त्री तु प्रतिफली सोगराजीति प्रषितौषधौ ॥ ४.८॥ पूर्वत्रेवात्र लिङ्गादि पुल्लिङ्गस्तु पृषातकः। साज्ये दघ्नि की तु दुग्धे निषिक्तघृतके भवेत् ॥ ४०९ ।। पृथुच्छदस्तु ना शाकसंज्ञवृक्षेऽथ पूर्ववत् । समासादिकमत्रापि पृथुहस्तस्तु हस्तिनः ॥ ४१० ॥ ऊर्ध्वं कृत्वाङ्गुलेः सप्त भागान् भागे च सप्तमे । पूर्ववत् स्यात् समासादि पृथुचित्रः पुनर्नरि ॥ ११ ॥ कुण्डप्रमितधान्यस्य गृहस्थे सङ्ग्रहीतरि । सादि पूर्ववदत्रापि पृधुरोमा पुनईषे ॥ ४१२ ॥ पूर्ववत् स्यात् समासादि ना तु मेतालयो द्रुमे । शाकोटाख्ये समासादि पूर्ववन्ना पुनर्नडे ॥ ४१३ ॥ काशे च स्यात् पोडगलो वैकरञ्जाख्यभोगिनाम् । भवेत् त्रयाणामेकत्र द्वे अथो पोषयित्नुवाक् ॥ ११॥
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy