________________
चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।
परीकस्तु ना वहौ भक्षे च द्वे तु कुकुरे । कुररे पर्परको तु पुंस्य नापाकरे(?) त्रि तु ॥ ३५४ ॥ अप्रचौ (?) परजातस्तु द्वे दासे सादि पूर्ववत् । परैधितस्तु हे दासे लिङ्गाद्यत्रापि पूर्ववत् ॥ ३५७ ॥ पञ्चाङ्गुलस्तु पुंसि स्यादेरण्डाह्वयपादपे । पञ्चाङ्गुलिप्रमाणे तु त्रिष्वथो वह्निवातयोः ॥ ३५८ ॥ पवमानो विशेषाच्च गाईपत्याख्यपावके । यज्ञस्तोत्रविशेषेषु त्रिष्यप्येष पुमांखि तु ॥ ३५९ ॥ कारके पवनाख्यस्य कर्मणोऽथ नपुंसकम् । पर्याणे स्यात् पल्ययनं द्वे तु पुत्रस्य पञ्चमे || ३६० ॥
प्
परम्पराख्ये सन्ताने पलगण्डस्तु लेपके । भित्त्यादेः सुधया मर्त्यजातिभेदेऽपि च द्वयोः ॥ ३६१ ॥ किरातात् करणीजाते पट्टबन्धः पुनर्द्वयोः ।
3
पत्यौ जीवति जारेण जनितः क्षत्रियेण यः ॥ ३६२ ॥ क्षत्रियायां भवेत् तस्मिन् नाम्ना क्षत्रियकुण्डके । पूर्ववत् स्यात् समासाद्यमथों परकुलो द्वयोः ॥ ३६३ ॥ मन्त्राख्ये जलमाजीरे समासार्थादि पूर्ववत् । पयोगर्भस्तु ना मेघे समासार्थादि पूर्ववत् ॥ ३६४ ॥ पचेलिमस्तु ना वह माषे च द्वे तुरङ्गमे । पद्मासनो विरिचे ना की तु स्यादासनान्तरे ॥ ३६५॥
अत्रापि पूर्ववत् सादि * प्रत्यदृष्टिः पुनः स्त्रियाम् । मीसने समासादि पूर्ववत् स्यादथो पुमान् ॥ ३६६ ॥
५७
१. 'कास्तु' ङ. पाठः.
३ 'पामाकरे' इति स्यात् । 'उद्राख्ये' इति स्यात् । 'उद्रस्तु जलमार्जारः पारी परकुलो वशी' (पृ. १५२. श्रो. ५४ ) इति वैजयन्ती । * 'प्रत्यग्दृष्टिः' इति स्यात् । 'मीमांसा तु विजिज्ञासा प्रत्यग्टष्टिर्विकुष्ठना । (पृ. ९७. लो. १७५ ) इति वैजयन्ती ।