SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ५६ मानार्यार्णवसंक्षेपे शुश्रूषायां च नृत्री तु कङ्कते स्यात् प्रसाधनी । प्रसादनस्तु प्रासादे पुमान् स्यादोदने तु नप् ॥ ३४५ ॥ न ना प्रसन्नीकरणे स्त्री तु प्रसहनी भवेत् । लताहत्यां क्लीत्रे तु भवेत् प्रसहनं तथा ॥ ३४६ ॥ अभिभूतौ समासादि पूर्ववत् स्यादथो पुमान् । सर्पको दर्शनाय यज्ञस्थानमुपागते ॥ ३४७ ॥ प्रसरि पुनस्त्रि स्यादर्थलिङ्गादि पूर्ववत् । बङ्गमः कपौ मेके द्वे द्वे तु कंपिभेकयोः ॥ ३४८ ॥ पुवङ्गमोऽथ स्त्री दण्डहीनसुचि परिप्लवा । चञ्चले पुनरेष त्रिरथो परिणतः पुमान् ॥ ३४९ ॥ तिर्यग्दन्तप्रहारे स्याद् गजे प्रौढे तु स त्रिषु । 1 परिशुष्कं पुनमसे घृते सितोष्णवारिणि ॥ ३१० ॥ पके मृदुनियुक्ते स्यात् कणादिभिरिदं नपि । शुष्कमात्रे तु तत् त्रि स्यादथोपकरणे पुमान् ॥ ३११ ॥ परिच्छदो जातिभेदे शबरीविप्रजे द्वयोः । पटच्चरं तु जीर्णे क्ली वस्त्रे मूनि तु पुंस्यदः ॥ ३९२ ॥ मध्यदेशगते नीवृद्विशेषे स्युः पटचराः । परम्परा तु वस्तूनां सन्ताने स्त्री द्वयोः पुनः ॥ ३५३ ॥ पुत्रपौत्रादिमालायां स्याद् गृहस्थस्य पञ्चमे । षष्ठे च मृगभेदे च गोकर्ण इति विश्रुते ॥ ३५४ ॥ पलङ्कषा पुनः स्त्री स्याद् गोक्षुरे गुलगुलौ तु ना । पचम्पचा तु स्त्री दार्य्यो ना तु चम्पकपादपे ॥ ३५५ ॥ १. 'दी' क. ग. च. पाठः. + 'मांसं बहुपृतैर्भष्ठं सिकं चेदम्बुना मुहुः । जीरकायैः समायुक्तं परिशुष्कं तदुच्यते ॥' चन्द्रका | इति
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy