SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ४४ नामार्थार्णव संक्षेपे भावे कर्मणि च क्लीबमथ स्त्री स्याद् गिरिप्रिया । सन्धानीसंज्ञके क्षुद्रफलवातिङ्गनान्तरे ॥ २०८ ॥ पूर्ववच्चात्र लिङ्गादि द्वयोस्तु स्याद् गुहाशयः । ऋक्षाखुसिंहकूर्मेषु समासाद्यत्र पूर्ववत् ॥ २०९ ॥ दीपे गृहमणिः पुंसि स्त्री गृहस्य मणावसौ । पुमान् गृहपतिर्बौ गार्हपत्याये तथा ॥ २१० ॥ कृषीबले छद्मवेषस्पशे स्यात् सत्रयाजिनाम् । प्रधाने यजमाने च गृहस्य त्वधिपे त्रिषु ।। २११ ॥ गोवन्दनी फलियां स्त्री गोस्तु गोवन्दना न ना । वन्दनेऽथ द्वयोर्गोलाङ्गूलः कृष्णमुखे कपौ ॥ २१२ ॥ नपुंसकैस्तु पुच्छे गोरथो घनरसो नृनप् । जले पूर्ववदत्रापि समासादि स्त्रियां पुनः ॥ २९३ ॥ घण्टारवा प्रसिद्धायां *चणपुष्पीति चौषधौ । पूर्ववत् स्यात् समासाद्यमथ की घोपसंज्ञके ॥ २१४ ॥ लोहे घण्टास्वनं लिङ्गसमासाद्यत्र पूर्ववत् । चराचरं की भुवने जङ्गमे तु त्रिषु स्मृतम् ॥ २१५ ॥ चरस्याप्यचरस्यापि समासाद्यत्र तर्क्सताम् । चतुरन्ता स्त्रियां भूमौ समासादिकमूयताम् ॥ २१६ ॥ अथ चतुर्दशानां त्रिः पूरणे स्याच्चतुर्दशः । स्त्रियां तु बीणाभेदे स्याद् यस्य तन्त्र्यश्चतुर्दश ॥ २१७. ।। चतुर्दशी सा तत्रासौ महेशस्य तिथावपि । चतुष्पथं की शृङ्गाटे ब्राह्मणे तु पुमानयम् ॥ २१८ ॥ १. 'ला' ग. पाठः. २. 'कं तु पु' ग. पाठः. 'अथो घण्टारवायां शणपुष्पिका' (पृ. ५३. लो. ९८ ) इति तु वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy