________________
॥
चतुरक्षरकाडे नानालिगाध्यायः। कौलेयकः शुनि द्वे स्यात् कुलीने बिद्धयोः पुनः । कौलटेयः कौलटेरः पर्या(ये!यौ) बन्धकीसुते ॥ १९६ ॥ कुलान्यटन्त्या भिक्षुक्याः सत्या एव च यः सुतः । तस्मिन् कौलटिनेयाख्ये कुलटायाः सुतेऽप्यथ ॥ १९७ ॥ कुलत्थे ना खलकुलः खलस्य तु कुले नपि । खरच्छदः पुमानूर्ध्वमूलसंज्ञे तृणान्तरे ॥ १९८ ॥ अत्रापि पूर्ववज्ज्ञेयमलिशाययो नपि । शृनवाचे खस्मुखं लिङ्गायत्रापि पूर्ववत् ॥ १९९ ॥ स्त्रियां तु स्यात् खरकुटी शालायां वपनस्य हि । अत्रापि पूर्ववज्ज्ञेयमर्थलिङ्गादि सूरिभिः ॥ २० ॥ स्त्री तु गन्धवहा घ्राणे ना तु वायो मृगे द्वयोः । गन्धवाहस्तु ना वायावत्राप्यादि पूर्ववत् ॥ २०१ ॥ गवीथुका तु स्त्री क्षुद्रधान्यभेदे पुरे तु न । गवादिनी स्त्री गिरिकर्ण्यभिधानलतान्तरे ॥ २०२ ॥ अर्थादि पूर्ववत् स्त्री तु सलक्यां म्याद गजप्रिया । श्यामाके तु पुमानत्राप्यर्थलिङ्गादि पूर्ववत् ॥ २०३ ॥ गजच्छाया स्त्रियां सूर्यग्रहण कश्चिदीरिता । सांवत्सरास्तु ब्रुवते गजच्छायां सलक्षणाम् ॥ २०४ ॥ हस्तनक्षत्रगे सूर्ये कृष्णपक्षे त्रयोदशी । मखाभिश्च समायुक्तेत्यपुमांस्तु गजस्य सा ॥ २०५ ॥ छायायामत्र पूर्वत्रेवार्थाद्यथ गळस्तनी । अजायामर्थलिङ्गादि पूर्वत्रेवान बुध्यताम् ॥ २० ॥ गदयित्नुस्तु पर्जन्ये पुमांत्रिविदूकके । गार्हपत्यः पश्चिमामौ पुमान् गृहपतेः पुनः ॥ २० ॥
1. 'द' क, ड. च. पाठः.