SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे कूलरूपा स्त्रियां नयां त्रि तु कूलस्य काषके । कृतमालस्तु ना गन्धद्रव्ये तकोलसंज्ञके ॥ १८५ ॥ भारग्वधे च द्वे तु स्यादुलूकाहयपक्षिणः । विशेपे कृष्णवणे च मृगभेदे च पूर्ववत् ॥ १८ ॥ अर्थाद्यथो कृष्णफला सोमराज्याहयौषधौ। स्त्री ना तु करमर्दाख्यतरावादि पूर्ववत् ॥ १८७ ॥ कृष्णवर्णस्तु ना धान्ये *चराख्येऽर्थादि पूर्ववत् । कृष्णवृन्ता तु पाटल्यां माषपाहयौषधौ ॥ १८८ ॥ कामर्ये च स्त्रियां ना तु कुलत्थेऽर्थादि पूर्ववत् । कृष्णसर्पस्तु कृष्णेऽहौ द्वयोर्दीकरान्तरे ॥ १८९॥ कुककाकुः कुकुटे द्वे कृकलासे च केचन । खञ्जरीटे क्षेपणीयः पुनर्ना भिण्डिपालके ॥ १९० ॥ क्षेप्तव्ये त्रिः केशपाशी पुनश्चूडार्थके स्त्रियाम् । ना तु केशकलापेऽथ पुमान् केलिकिलः स्मृतः ॥ १९१ ॥ कूश्माण्डाल्ये भृत्यगणे हेरम्बस्य प्रियङ्करे । स स्यात् केलिसहाये च क्रीडाशीले तु स त्रिषु ॥ १९२ ॥ स्त्री तु कोशफला राजकोशातक्याहये भवेत् । कोशातकीविशेषे सा तिक्तकोशातकीति च ॥ १९ ॥ प्रसिद्ध ना तु सामान्ये कोशातक्या नपि त्वदः । तकोले स्याज्जातिफलेऽप्यथ स्यात् कोटिवर्षवाक् ॥ १९४ ॥ देविकोट इति ख्याते पुरभेदे नपुंसकम् । स्त्री कोटिवर्षा स्पृक्कायामत्राप्यादि पूर्ववत् ॥ १९५ ।। १. 'M' क. ङ. च. पाठः. २. 'पु' क... च. पाठः. • 'चणाख्ये' इति स्यात् । 'कृष्णवर्णः संवतॊ वातुलधणः' (पृ. १२६. यो. १३) इति वेषयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy