________________
नानार्थार्णवसंक्षेपे अत्रापि पूर्ववद् विद्यात् समासार्थादि पण्डितः । कङ्कपत्रस्तु ना बाणभेदेऽत्रार्थादि पूर्ववत् ॥ १४१ ॥ कङ्कणीकस्तु ना घण्टाजाले प्रतिसरे पुनः । करणीका स्त्रियामेतदौणादिकनिरूपितम् ॥ १४२ ॥ कलविस्तु चटके तद्भेदे पीतमुण्डके। द्वयोः स्यात् कमनीयस्तु चम्पकाख्यमहीरुहे ॥ १४३ ॥ नाय कामयितव्ये त्रिः स्त्रियां तु स्यात् कपिपिया। तिन्त्रिणीकाख्यवृक्षे स्यात् प्रियायां च कपेस्तथा ॥ १४४ ॥ अर्थलिङ्गसमासांस्तु विद्यादत्रापि पूर्ववत् । कपीतनस्तु ना ज्ञेयस्त्रिषु वृक्षेषु सूरिभिः ॥ १४५ ॥ गर्दभाण्डाहयप्लक्षेऽप्यानातकशिरीषयोः । फलप्रसूनयोस्तेषां विद्यादेतन्नपुंसकम् ॥ १४६ ॥ करमर्दस्तु ना ज्ञेयो मर्दने करवस्तुनः । कृष्णपाकाख्यवृक्षे च करमर्दी तु सा स्त्रियाम् ॥ १४७ ॥ तस्य जात्यन्तरे स्वल्पे *कलहाहः पुनर्नरि। मदनाख्यद्रुमे पद्मकन्देऽप्याह तु शाश्वतः ॥ १४८ ॥ पुष्पजाती च लिङ्गं तु तत्र क्ली मदनस्य च । प्रसूनफलयोः पुंसि करवीरो महीरुहे ॥ १४९ ॥ अश्वमारकसंज्ञेऽस्य पुनः पुष्पे नपुंसकम् । मनःशिलायां तु भवेत् करवीरा स्त्रियामियम् ॥ १५० ॥
..'' ग. पाठः. २. 'ल:' ग. पाठः
३ 'ते' क. च. पाठः.
• 'करहाटः' इति स्यात् । 'करहारः शिफाकन्दे पद्मस्य मदनमे' इति मेदिनी ।