________________
चतुरक्षरकाण्डे नानालिङ्गाध्यायः ।
अश्विन्यायुक्षनवकवलप्तवीशीत्रयात्मनः। दे(वया)नाख्यमार्गस्य त्रियां पैरावती भवेत् ॥ १२९ ॥ वीथ्यां पुनर्वस्वाद्यैश्च क्लुप्तायामुडुभित्रिभिः । आचक्षते च तामेनां विद्युद्विद्युद्विशेषयोः ॥ १३०॥ सम्बन्धिनि विरावत्यास्त्रिप्वादुम्बरं नपि । कुष्ठरोगान्तरे केचित् पुनस्तानेऽप्यधीयते ॥ १३१ ॥ - वानप्रस्थविशेषे तु पुमानस्याह लक्षणम् । . औदुम्बरस्तु पण्माससका ही तुर्यकालभुक् ॥ १३२ ॥ उदुम्बरस्य सम्बन्धिन्येतत् स्याद् भेद्यलिङ्गकम् ।
और्वशेयस्त्वगम्त्यो ना द्वयोम्तर्वशीसुते ॥ १३३ ॥ कलधौत रूप्यहेनोः क्ली त्रि तु स्यात् कलध्वनौ । कलकण्ठः कोकिले द्वे समासादि पूर्ववत् ।। १३४ ॥ कलकाणस्तु दात्यूहे भ्रमरे च द्वयोः स्मृतः । नत्राप्यर्थमगागादि गर्नया नर्कयेदश ॥ १३ ॥ पारावते कलरवो द्वे समासादि पूर्ववत् । कलहंसस्तु कादम्बसंज्ञके विहगे द्वयोः ॥ १३६ ॥ . राजहंसेऽप्यथो पुंसि विज्ञेयः श्रेष्ठभूभुजि । कलेबरं तु क्ली काये शवे त्वन्ये स्त्रियां पुनः ।। १३७ ।। नवानां शम्भुशक्तीनामेकस्यां स्यात् कलेबरा । कर्णपूररतु पुष्पाद्यैः कृतकर्णविभूपणे ॥ १३८ ॥ अशोकवृक्षे च तथा तिलकाख्यतरौ च ना । कर्णपूरा तु कर्णस्य पूर्ती स्त्रीपुंसयोर्भवेत् ।। १३९ ॥ नपुंसकं तु विज्ञेयं स्यात् सौगन्धिक उत्पले । ना तु कङ्कमुखो ज्ञेयः सन्दंशे लोहकारिणाम् ॥ १४ ॥