SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ मानार्णवसंक्षेपे त्रिष्वस्थः खादकेऽस्मस्तु खादने मुखियोरथ । अहिच्छत्रं तु नलिङ्गं छत्राके स्यानृभूग्नि तु ॥२७॥ *प्रत्यप्रधा इति ख्याते ख्यातो जनपदान्तरे । अनिरुद्धः पुमान् पत्यावुषायानि त्ववारिते ॥ २८ ॥ अर्षहस्वस्तु ना पञ्चहस्तमाने नृनए पुनः। . हस्तस्याऽर्षचन्द्रा तु मसूरविदलाहये ॥ २९ ॥ लताभेदे खियां ना तु क्षुरप्राख्यायुधान्तरे । । चन्द्रस्यार्थेऽप्ययो अम्बुमियो ना वेतसष्टुमे ॥ ३० ॥ त्रि तु प्रियजलेऽयारिपियो ना चूतनीपयोः । काकजम्बूसमाख्ये च जम्बूभेदे स्त्रियां त्वयम् ॥ ३१ ॥ अलेः प्रियायां त्रिपु तु प्रिये मधुलिहस्तथा । मलियस्य प्रियस्तत्राप्यथो अवप्रियो यवे ॥ ३२ ॥ पुमान् समासभेदेषु त्वर्थो लिङ्गं च पूर्ववत् । अश्ववालस्तु काशे ना बाले त्वश्वस्य पुन्नपोः ॥ ३३ ॥ अश्वपण्यस्त्वनूढायां वैश्यायां क्षत्रिया(न्तान)रे। जाते द्वयोनिषु पुनर्वहुवीही नपि त्वदः ॥ ३४ ॥ ज्ञेय तत्पुरुषेऽथ स्यादपक्रम इति त्रिषु । गैर्यक्रमयुते पुंसि त्वपगत्यां पलायने ॥ ३५ ॥ त्रिषु त्वपशदो नीचे द्वे तु षट्सु नृजातिषु । वर्णानामानुलोम्येन जातास्वथ पराक्रमे ॥ ३६ ॥ अपदानं नपि त्रिस्तु बहुव्रीहावथो पुमान् । अपसव्यः सूतकादौ प्रतिकूले तु स त्रिषु ॥ ३७॥ 1. 'स्मा' क. पाठः. २. 'गुपक' क..च. पाठ:. • 'साल्वावववप्रत्यप्रथकसकूटाश्मकादिम्' (४.१.१७३) इति सूत्रानुरोधात् 'प्रस्सप्रया' इति पाठो युवा प्रतिभाति ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy