________________
नानार्थार्णवसंक्षेपे
अवज्ञातेऽप्यवाकीर्णेऽप्यथानूचान इत्ययम् । विनयावनते साझवेदाधीतिनि च द्विजे ॥ १२ ॥ अभियोक्ता विवादेषु पूर्ववादिन्यपि द्विषः । परिक्षेतरि सैन्येन स्यादयो अनुजीविवाक् ॥ १२ ॥ सहाये सेवके चायो आधारित इति ध्वनिः । विवादेष्वमियुक्ते चासाविते चाभिशस्तके ॥ १४ ॥ भयो आपणिकः ख्यातो वणिक्पत्तनवासिनोः । शाकटायननिर्णीतस्तथैव व्यवहारके ॥ १५ ॥ उदाहितमुपन्यस्ते बद्धग्राहितयोरथ । उत्कीर्णे स्यादुल्लिखितमनुषते तनूकृते ॥ १६ ॥ कक्ष्यापालस्त्वोपरिक शूरपालेऽजयोदितः । कौटिको दाम्भिके च स्याञ्चादूरेरितेक्षणे ॥ १७ ॥ दिशमीस्थो नष्टबीजे स्थविरे च व्रताशने.। प्रतिशिष्टं निरस्ते स्यादाहूय प्रेषिते तथा ॥ १८ ॥ स्यात् तु प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते । विद्विष्टे तु प्रतिहतं प्रतिस्खलितवस्तुनि ॥ १९ ॥ अथ प्रज्वलितं दग्धे दीसे दीपित एव च । अथो परिगतं व्याप्ते विज्ञाते परिवेष्टितेः॥ २० ॥ स्यात् तु पक्षचरो यूथभ्रष्टेऽप्येकचरेऽपि च । मातरूपः सुन्दरे स्यात् तथैव च विचक्षणे ॥ २१ ॥
-
'नु' ग पाउ:. २. 'कु' ग., 'कूटीको' क., 'कुटीको' च. पाठः. ३. 'मि' क. च. पाठः. ४. 'व' क... च. पाठः. .
* 'कौकुटिको डाम्भिकः स्याद् (पृ. २७५. श्लो. ६) इति तु वैजयन्ती। . 'दशमी स्थस्त स्थविरे नष्टबीजे मताशने' (पृ. २७५. लो. ५) इति तु वैजयन्ती।