________________
अथ चतुरक्षरकाण्डे वाच्यलिङ्गाध्यायः।
अथो चतुःस्वराः शब्दा भेलिङ्गाश्च ये स्मृताः । तेषामयमिहाध्यायः स्पष्टः प्रस्तूयतेऽधुना ॥ १ ॥ अभिजातः कुलीने च न्याय्यपण्डितयोरपि । अभिनीतः संस्कृते च न्याय्ये चामर्षवत्यपि ॥ २ ॥ अभिरूपो बुधे चारावमिपत्रं त्वभिद्रुते । अभिग्रस्तेऽपराद्धे च तथैवोक्तं विपद्गते ॥ ३ ॥ अभियुक्तः परिचिते परिक्षिप्तेऽरिसेनया । व्यवहारप्रवृतानां तथैवोत्तरवादिनि ॥ ४ ॥ अभिशस्तोऽभिशस्ते स्याद् विवाद्युत्तरवादिनि । अत्यारूढं समारूढे दृश्यतेऽभ्यधिकेऽपि च ॥ ५ ॥ अधिक्षिप्तं प्रणिहिते प्रेक्षिते भत्सितेऽपि च । अथाध्यक्षेऽप्यधिकृतः स्वरितेनानुवर्तिते ॥ ६ ॥ अवदातः सिते पीते प्रधाने शुद्ध एव च । अविदुरे(ऽप्यात्व)वष्टब्धमवलम्बित एव च ॥ ७ ॥ अपध्वस्त विकृते स्यादुझितेऽप्यवचूर्णिते । केचित् तु निन्दिते पाहुर्धिकृतार्थमशासतः ॥ ८ ॥ निश्चिते स्यादवसितं समाप्त उषितेऽपि च । अवाचीनं विपर्यस्तेऽप्यवागर्थेऽपि दर्शितम् ॥ ९ ॥ अतिवेलं भृशे वेलामतिक्रान्तेऽप्यथोच्यते । सहाये स्यादनुचरस्तथैवाप्यनुगन्तरि ॥ १० ॥ असम्पृक्तस्त्वसंस्पृष्टे रहस्यन्तर्गतः पुनः । विस्मृतेऽन्तःप्रविष्टेऽयो अवकीर्णमिति ध्वनिः ॥ ११ ॥