________________
भानार्णवसंक्षेप मथो रनवर स्वर्णे रत्नानां प्रवरेऽपि च । रतर्षिकं सुखे स्नाने दिनमङ्गलयोरपि ॥ ४१ ॥ रागसूत्रं तुलासूत्रे पट्टसूत्रेऽजयोऽब्रवीत् । शब्दशाले व्याकरणं ज्याटकारे स्फुटीकृतौ ॥ १२ ॥ विसर्जनं परित्यागे दाने विहननं पुनः । पिञ्जने च वधे च स्यात् पिञ्जनं प्रविसारणम् ॥ १३ ॥ विद्यात कार्पासतूलादेविधातेऽप्यय कथ्यते ।
कक्ष्यकमुरःस्थानतिर्यग्विक्षिप्तमाल्यके ॥ ४४ ॥ पावारे भृङ्गिबेरं तु शुण्ठ्यामप्याकेऽप्यथ । संसारे स्यात् संसरणमसम्बाधचमूगतौ ॥ ४५ ॥ घण्टापथे जन्मनि च वारणेऽप्याह सज्जनः । संसार उक्त्वा भूयोऽपि संसृतावजयोऽब्रवीत् ॥ १६ ॥ शरीरे स्यात् संहननं घटनेऽप्यथ कथ्यते । वशीकृतौ संवनने सम्भक्तो याचनेऽप्यथ ॥ ४७ ॥ उलूलौ स्यात् स्वस्त्ययनं क्षेमेण गमनेऽप्यथ । मेखलायां सारसनमुरखाणेऽपि केचन ॥ ४८ ॥ सकम्बुका भटा मध्ये यद् बधन्त्यषिकारकम् । इति नामा परे तत्र समाप्तोऽध्याय इत्ययम् ॥ १९॥
इति चतुरक्षरकाण्ड नपुंसकलिङ्गाध्यायः ।।
1. 'न्यस्तमा' क. च. पाठः. २. 'घे ग. के. च. पाठः. ३. 'ह' ग. पाठः ४. 'उत्तमः॥' ग. पाठः.