SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ चतुरक्षरकाण्डे नपुंसकलिकाध्यायः। हिंसायां च प्रमथनं भवेत् प्रजननं पुनः। उपस्थयोः प्रजातौ च विद्यात् प्रहसनं पुनः॥२९॥ रूपकाणामन्यतमे प्रहासेऽथ प्रदेशनम् । प्रदिष्टौ प्राभृते दाने प्रस्फोटनपदं पुनः ॥ ३०॥ शूर्प शूर्पण पवने पद्मपत्रपदं पुनः । भवेत् पुष्करमूलाख्यभेषजेऽब्जस्य चच्छदे ॥ ३१ ॥ प्रतिदानं परीवर्ते न्यासद्रव्यस्य चार्पणे। प्रतिमानं प्रतिकृतौ गजदन्तद्वयान्तरे ॥ ३२ ॥ परिधानमधोवस्त्रे तदाच्छादनकर्मणि । परासनं निरसने वधे चाथ परायणम् ॥ ३३. ।। चतुर्मासोपवासे च साकल्यासङ्गयोरपि । अथ पारायणं ध्याने तत्परेऽधीष्ट आश्रये ॥ ३४ ॥ साकल्यासङ्गयोश्च स्यादशस्य च बैन्धने । जलेन चतुरो मासाञ्जीवनेऽप्यथ पाप्मनः ॥ ३५ ॥ निष्कृतौ रुक्चिकित्सायां प्रायश्चित्तमथोदितम् । पीतदारुपदं पीतचन्दने देवदारुणि ॥ ३६ ॥ अथ पुंसवनं गर्भस्त्रियाः संस्कारकर्मणि । क्षीरे पुंसश्च सबने विद्यात् पुष्परजः पुनः ॥ ३७॥ कुङ्कमे च परागेऽथ सरले देवदारुणि । पूतिकाष्ठमयो शुण्ठयां लशुनेऽपि महौषधम् ॥ ३८ ॥ विद्यादतिविषायां च शकटे तु महानसम्। पाकस्थानेऽप्यथो भावकर्मणोमिथुनस्य च ॥ ३९ ॥ मिथुनत्वं रते चाभ कालशेये रसायनम् । रसस्याप्ययने दीर्घजीवित्वकरमेषजे ॥ ४० ॥ १. 'तो' क. च. पाठ:. २. 'रि' ह. पाठः. ३. 'खण्डने' ग. पाठ:. . ४. 'क' i. च. पाठः. ५. 'थे' क. ग. च. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy