________________
चतुरक्षरकाण्डे नपुंसकलिलाध्यायः। . त(यात्रा)पि स्यात् तु भूतानां खपक्षप्रभवे भये । भयमात्रेऽप्यहिमयमथो आयतनध्वनिः ॥ ६ ॥ देवालये शरव्ये च गृहमात्रे च तोरणे । स्थानमात्रे च विज्ञेयमातश्शनपदं पुनः ॥७॥ आप्यायने च जवने प्रतीवापेऽपि दृश्यते । आस्कन्दनं स्यादास्कन्दे युद्धेऽप्यास्तरणं पुनः ॥ ८॥ आस्तीर्णौ च कुथे चापि दर्भाधास्तीर्णवस्तुनि ।
आयोधन वधे युद्ध आवेशनपदं पुनः ॥ ९ ॥ 'कुवेशे शिल्पिशालायामथोदरणमुन्नये । । (खातावान्ता)ने* शाश्वतस्तुन्मूलने मुक्तोज्झितेऽपि च ॥ १० ॥ अथोत्पतनमुत्पत्तावूर्ध्व गमन एव च । उत्सर्जनं तु दाने च परित्यागे च कीर्तितम् ॥ ११ ॥ उन्मीलनं स्यादुन्मेषे विकासे कुसुमस्य च । उपधानमुपष्टम्भ उपष्टम्भनसाधने ।। १२॥ उच्छीर्षकेऽथोपमानमुपमायां च येन च । उपमीयेत तत्रापि कपिशीर्ष पुनः कपः ॥ १३ ॥ मूर्ध्नि प्राकारशिखरेऽप्यथ कामपदं भगे। कामस्यापि पदे कोकनदं तु कथितं बुधैः ॥ १४ ॥ रक्ताब्जे रक्तकुमुदेऽप्यथ ज्ञेयं गृहोदकम् । काञ्जिके गृहसम्बन्धिजले गोदारणं पुनः ॥ १५ ॥ कुद्दाले लागले चाथ चामीकरमिति ध्वनिः । चामरे कनके चाथ च्युतादानमिति ध्वनिः ॥ १६ ॥
1. 'का' क. ग. च. पाठ:. २. 'ति' ग. ह. पाठः,
'आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः' इति विश्वमेदिन्यौ। * 'स्यादुद्धरणमुद्वान्तभक्तेऽप्युत्पाटनेऽपि च' (पृ. २५३. लो. ६) इति वैजयन्ती ।