________________
चतुरमरकाण्डे पुतिमाध्यायः। अथ प्रतिक्रियामात्रे प्रतीकारो (पि! हि) भूभुजाम् । . वैरनिर्यातने चापि प्रतिहारस्तु कच्छपे ॥ ७४ ॥ द्वारे च द्वारपाले च प्रतीकाशस्तु कथ्यते । गजानां पूर्वपादस्य मूलस्याधःप्रदेशके ॥ ७९ ॥ सादृश्येऽप्युत्तरपदभूतोऽथायुधकोशके । प्रत्याकृतौ प्रत्याकारः प्रत्याहारस्त्वणादिषु ॥ ७ ॥ अप्यक्षरसमामाये प्रत्यानयनकर्मणि । वाद्यवादकसामग्रीविन्यासे नाट्यगोचरे ॥ ७७ ॥ विषयेभ्यः समाहृत्यामिन्द्रियाणामथोच्यते । प्रत्यासारो व्यूहपाष्णौँ प्रत्यासैरणकर्मणि ॥ ७८ ॥ उक्तस्त्वमरदत्वेन चमूकट्यामिति ह्ययम् । प्रजागमस्तु विज्ञेयः प्रजाया आगमे गमे ॥ ७९ ॥ एकाहाहीनसत्राख्ययज्ञक्रतुपु चाप्यथ । पराशरो व्यासताते शके चाथ प्रभाकरः ॥ ८॥ रविवयोरथो पङ्करसः शीधौ तथा रसे । पस्याथाम्बुदे स्त्रीणां स्तने मु(क्तेः स्ते) *पयोधरः ॥ ८१ ॥ परिस्पन्दः परिजने स्पन्देऽथ परिवापवाक् । द्विवीण परीवापशब्देनैकात्मिका. हि सा ॥ ८२ ॥ इयं तु लाजेष्वप्युक्ता शिष्टैरथ परिच्छदे । पर्युप्तावालवाले च परिवापोऽत्र शाश्वतः ॥ ८३ ॥
१. 'ति' ग. पाठः. २. 'ति' क.. च. पाठः. ३. 'ये' क.. पाठः. ४. 'न्त' ...च. पाठः. ५. 'सा' क. च. पाठः. ६..'पा' क. ग. व. पाठः. ५. 'पा' . ग.च. पाठः..
' इत उत्तरं 'महीभुजाम्' इति स्यात्। • 'पयोधरः कोशकारे मारिने स्तनेऽपि । कशेरुमेघयोः सि' इति मेदिनी । कशेरु मुस्ताविशेषः ।....