SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंमेपे : सज्जनो हाटकेऽवादीदवष्टम्भस्तु काञ्चने । ' समालम्बे तथा स्तब्धौ स्तम्भे चाप्यजयोऽवदत् ॥ १८ ॥ नैतद् रुचितमस्मभ्यं यतः षत्वस्य साधुता । आलम्बनादाविदूर्याच्चान्यत्र विषयेऽस्य न ॥ १९ ॥ अवस्करस्तु विष्ठायां गुह्ये चाथो धनञ्जयः । रहस्य इत्यभाषिष्ट वयं तु बमहे परम् ॥ २० ॥ मलप्रक्षेपणखानेऽप्यथावकर इत्ययम् । धर्मशास्त्रविदां ख्यातेऽवकीर्णित्वेऽवचूर्णने ॥ २१ ॥ सम्मार्जनीनिरस्तस्य तृणपांस्वादिवस्तुनः । राशीवुत्ककटाभिख्येऽप्यथावस्कन्द इत्ययम् ॥ २२ ॥ सौप्तिकेऽपि नगर्यादेरपहारे बलोद्धतैः। अथावयव इत्येष एकदेशाप्रधानयोः ॥ २३ ॥ ... पृथग्भूते पृथग्भावेऽप्यव(घाखा)*तस्तु गर्तके। . जलाशये च कीर्णाख्ये वैजयन्त्यामभाषत ॥ २४ ॥. .. दोषोत्पादेऽनुबन्धः स्यात् प्रकृत्यादेविनश्वरे । मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥ २५॥ क्रोधेऽपि सज्जनः प्राह दोषेऽप्येमरदत्तकः । अथार्नुद्वेष इत्येष दीर्घद्वेषानुबन्धयोः ॥ २६ ॥ पश्चात्तापे च केचित् तु द्वेषमात्रे परः पुनः । व्याख्यातामरकोशस्य देशभेदेऽप्यभाषत ।।.२७॥ अनुपगस्तु कारुण्ये प्रकृतस्यानुवर्तने । अनुकर्षस्त्ववस्थे स्याद् रथकाष्ठेऽनुकर्षणे ॥ २८ ॥ १. 'सम्भेदेऽप्य' क. च पाठ:. . २. 'काशा' क. ग. च. पाट:.. . 'कावुत्कुसुटा' क. चं. पारः. ४ 'नि' क. ग. च. पाठः. ५. 'त्व' क ग. च. पाठः. ६. 'नद्वय ई क. च , 'यवाय ' ग. पादः । . __* 'अवखातस्तु कीर्णः स्याद' (पृ. १५४. श्लो. ७) इति वैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy