SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २५५ नानार्थार्णवसंक्षेपे : त्रिस्तु स्यान्मुद्रया युक्ते समुद्गस्तु पुमानयम् । सम्पुटे त्रिस्तु सहिते मुद्रेनाथ नपुंसकम् ॥ १९१० ॥ शरस्यारोपणे चापे सन्धानं काञ्जिकादिनः । अभिषुत्यां काञ्जिके च श्लेपणे चाथ सा स्त्रियाम् ॥ १९११ ॥ सन्धानी रूप्यशालायां वातांक्याश्च तथान्तरे । गिरिप्रियासमाख्येऽथ भेद्यवत् सन्धिसाधने ॥ १९१२ ॥ समानस्तु पुमान् वायुभेदे देहान्तरस्थिते । विस्तु साध्वेकतुल्येषु मानेन सहिते तथा ॥ १९१३ ॥ सज्जनस्तु पुमान् साधौ कुलीने भेद्यलिङ्गकम् । लीबं तु रभसो ब्रूत उपरक्षणघट्टयोः ॥ १९१४ ॥ त्रियां तु सजना हस्तिकल्पनायामथो पुमान् । सर्पपस्त्वोषधीभेदे तुन्तुमाख्ये स्त्रियां पुनः ॥ १९१५ ॥ सर्षपी फलिनीसंज्ञवृक्षे व्याध्यन्तरे तथा । स्वस्तिकस्तु पुमान् गेहवास्तुविन्यसनान्तरे ॥ १९१६ ॥ त्रिकोणसंज्ञके चापि स्त्रीणां स्याद् भूषणान्तरे । सुनिषण्णाहये शाकस्तम्चे पङ्कसमुद्भवे ॥ १९१७ ॥ द्वे तु चापसमाख्ये स्यात् पक्षिभेदेऽथ पुंस्ययम् । स्वरितः स्वरभेदे स्यादुचनीचद्वयात्मके ॥ १९१८ ॥ त्रि तु तद्वत्यपि स्याच खर्गते स्व(रससर)स्तु ना। प्रातरि की तु दिवसे गेहे चाथ द्वयोरयम् ॥ १९१९ ॥ . सवर्णो ब्राह्मणाजाते क्षत्रियायां विवाहतः । मर्त्यजात्यन्तरे त्रिस्तु मत्र्ये स्यादेकवर्णके ।। १९२०॥ १. 'द' क. प. पाठः. ६ सहजः स्वसरो भ्राता' (पृ. १७५. लो. ३१) इति वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy