SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । सरकोsat मणौ शीधुपाने चषकशीथुनोः । भेद्यवत् तु भवेत् साधु सर्तर्यथ सगोत्रवाक् ॥ १८९९ ॥ एकगोत्रे द्वयोस्त्रिस्तु गोत्रेण सहितेऽथ नप् । सहजं स्यात् स्वभावे क्लीपुंस्येनं रभसोऽभ्यधात् ॥। १९०० ॥ सहोत्पन्ने विजानीयात् सग (?) चापि भेद्यवत् अथात्र धीरैः सन्दष्टशब्दः पुंसि प्रकीर्तितः । १९०१ ॥ गाथकानां कण्ठदोषभेदे सम्मिश्ररूपके । त्रिस्तु सन्दंशनस्य स्यात् कर्मभूते तथैव च ।। १९०२ ॥ यमकस्य प्रभेदे च सरटस्तु द्वयोरयम् । 3 कृकलासे स्त्रियां तु स्यात् सरटी नीलिकाये * ॥। १९०३ ॥ लोहभेदेऽथ सरलैः पूतिकाष्ठाइयदुमे । पुमान् विदग्धे तु त्रि स्यादृजौ च प्रियवादिनि । १९०४ ॥ पुनर्हर्षः समाचष्टे सरण्डस्तु पुमानयम् । तृणानां समवायेऽथ कृमिजात्यन्तरे द्वयोः ।। १९०५ ॥ स्तम्बजं तु क्लीचलिङ्गमुशीरे भेद्यवत् पुनः । स्तम्बजातेऽथ पुंसि स्यात् स्रवणः कतकाये ॥ १९०६ ॥ वृक्षे की तु सुतै क्की तु सलज्जं स्यात् सुगन्धिके । स्तम्बे दमनकाख्ये स्यालज्जावति तु भेद्यवत् ॥ १९०७ ॥ समुद्रस्तु पुमानब्धौ छन्दस्युत्कृतिसंज्ञके । आकाशे च तथा सङ्ख्याभेदे चैवंविधः स च ॥। १९०८ ॥ शताद् दशगुणं या स्यात् सङ्ख्या यत्र त्रयोदश (?) । शाश्वतस्तु नपि प्राह समुद्रं देहलक्षणे ॥। १९०९ ॥ १. 'त्रैव स' क. ङ. च. पाठः. २. 'तु' क.. च. पाठः. क. च. पाठ:. ● 'मीलिकार्या तु सरटी' (पृ. ४३. श्लो. २७) इति तु वैजयन्ती । + 'अथ परे दशगुणोत्तराः । शतं सहस्रमयुतं नियुतं प्रयुतार्बुदे । न्यर्बुदं वृन्दसर्वे च निखने राङ्गमम्बुजम् । समुद्रो मध्यमन्तं च परार्धे च यथाक्रमम् ।' (पृ. १८८. लो. २७ २८ २९) इति वैजयन्ती,
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy