SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ त्र्यक्षरकाण्डे नानालिसाभ्यायः। स्पर्शनं तु नपि स्पृष्टौ दाने च परत! व)ने तु ना। अना तु स्पर्शयत्यर्थे स्पर्शना परिकीता ॥ १८७७ ॥ सर्गकं त्वतिबोले स्याद् (वनी ? दलि) * यत्रोप्तमात्रकम् । संयावेनं तत्र भेद्यलिङ्गं तु स्रष्टरि स्मृतम् ॥ १८७८ ॥ अथात्र रभसः प्राह पुल्लिङ्गे वचनं यथा । नालिकेरस्य सस्याममणी खड्ने च सत्यकः ॥ १८७९ ॥ भागवृत्तिकृता तूक्तं सस्यसम्पन्नवस्तुषु । वीहिशाल्यादिकेष्वेव स्थावरेप्वत्र भेयवत् ॥ १८८० ॥ यत् त्विदं गुणसंम्पन्ने जयादित्येन गापितम् । अतिलोकतया तस्य विरसत्वादुपेक्षितम् ॥ १८८१ ॥ संहितं तु त्रि संश्लिष्टे संहिता तु स्त्रियामियम् । शास्त्रग्रन्थजातिभेदे वेदभागेऽपि च कचित् ॥ १८८२ ॥ अतीव सन्निकर्षे च वर्णानां क्ली तु सामनि । षष्ठे च नवमे चैव खादिष्ठावर्गगीतके ॥ १८८३ ॥ . सप्तकस्तु पुमान् सङ्घ सप्तानां क्ली तु सप्तकम् । मृगयाक्षादिपु स्त्री तु सप्तकी काचिदापनि ॥ १८८४ ॥ सप्तमं तु त्रि सप्तानां पूरणे सप्तमी पुनः । स्यात् सप्तमविभक्तौ च दुर्गादेव्यास्ति धावपि ॥ १८८५ ॥ सङ्कोचने तु सङ्कोचः पुमान् क्लीयं तु कुङ्कुमे । सम्बाधस्तु भगे स्त्रीणां पुमान् मेदे च सज्जनः ॥ १८८६ ।। कारायां सङ्कटेऽन्ये तु सङ्कटे त्रिषु मन्वते । संस्कृतं त्वाहितोत्कर्षे कृत्रिमे निर्मलीकृते ॥ १८८७॥ १. 'मात्रे स्या' ग. पाठः. २. 'प' क. च. पाठः. समिति स्यात् । * 'संजावने तृप्तमात्रे प्राङ्मन्दात, सर्जकं दधि' (पृ. १३४. श्लो. ४.) इति वैजयन्ती।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy