________________
ध्यक्षरकाण्डे नानालिझाध्यायः।
शकुंटस्तु पुमान्छाकस्तम्बभेदे स्त्रियां पुनः । हस्तिनः पश्चिमं मागं विभज्य दशधोर्ध्वतः ॥ १७८४ ॥ आरभ्य पञ्चमे भागे शकुंटाथ कोटवाक् । बाही ना भेद्यवच्छक्ते शताङ्गस्तु रथे पुमान् ॥ १७८५ ॥ पूर्ववत् स्यात् समासादि अपणा तु न पुंस्यसौ । धातोः अपयतेरर्थे अपणी तु खियामियम् ॥ १७८६ ।। स्यात् सुम्विशेषेऽमिहोत्रहवणीसंज्ञकेऽथ नए । श्रान्तौ स्याच्मण स्त्री तु श्रमणी मुण्डिकाहये ॥ १७८७ ॥ भैषज्यस्तम्बभेदे स्याद् रभसस्त्वाह शब्दवित् । दध्याल्याख्यलतायां च द्वे तु क्षपणकेऽथ नप् ॥ १७८८ ।। श्रवणं स्याच्छृणोत्सर्थे श्रोत्रे चाथ नृलिङ्गकः । विष्णुदेवतनक्षत्रे तयुक्ते कालमात्रके ॥ १७८९ ॥ श्रवणा तु सियां रात्रिविशेषे पूर्णिमान्तरे । प्राणिभेदे पुन स्याच्छ्रविष्ठा तु स्त्रियामियम् ॥ १७९० ॥ वसुदेवतनक्षत्रे तद्युक्ते कालमात्रके । जाते तु तत्र त्रिरथो शत्रुघ्नो ना कनीयसि ॥ १७९१ ॥ . काकुत्स्थस्य सुमित्राजे त्रिस्तु शत्रोनिहन्तरि । शर्वरो ना महादेवे चन्द्रे च तमसि त्वदः ॥ १७९२ ॥ की स्त्री तु शर्वरी रात्रौ सन्ध्यायामपि योषिति । अथ स्त्री शमिता चूर्णे गोधूमस्येति यादवः ॥ १७९३ ॥ . असाध्विव तदाभाति शब्दज्ञानां यदप्रणीः। गोधूमचूर्णे समिधं धान्तं पुल्लिङ्गमुक्तवान् ॥ १७९४ ॥ शाकटायन आचार्यस्तस्यौपभ्रंश इत्ययम् । भासते सॉपि साध्वी चेदीप्स्ये शमयतेलिषु ॥ १७९५ ॥
१.
क.ग पाठः. १. 'क' क. पाठः. ३. 'द' ग. पाठ:. .'' . पाठ::