________________
त्र्यक्षरकाण्डे नाचलिङ्गाध्यायः ।
ब्राह्मण्यां तत्र माहिष्यात् त्रिस्तु वेणुविकारके । की तु स्वर्णविशेषे स्याद् वेणूतटसमुद्भवे ॥ १७६० ॥
कर्णिकारंप्रभेऽथो ना शम्बरो गिरिमेघयोः । दैत्यभेदे च विज्ञेयो यो बिभर्क्युरसा स्त्रियम् || १७६१ ॥
द्वे तु स्यान्मृगभेदेऽल्पहरिणे मत्स्य एव च । क्लीबं तु सलिले बौद्धनतभेदे बलेऽप्यथ ।। १७६२ ॥
शबरो मर्त्यजातेर्द्वे प्रभेदे यस्य सम्भवः ।
शूद्राद् भिल्लस्त्रियां स्त्री तु शबरी तापसस्त्रियाम् ॥। १७६३ ।।
रामायणप्रसिद्धायां पुलिङ्गस्तु महेश्वरे ।
नपुंसकं तु सलिले शबलस्तु नृलिङ्गकः ।। १७६४ ॥
चित्रवर्णवृषे चित्रवर्णे च त्रि तु तद्वति । शनली तु स्त्रियां चित्रवर्णगव्यामथ द्वयोः ।। १७६५ ॥
फरो मत्स्यभेदे स्वात् प्रोष्ठीसंज्ञे स्त्रियां पुनः । शफरी वृक्षभेदे स्यादश्मन्तक इति श्रुते || १७६६ ॥
शलली नस्त्रियोः श्वाविलोम्नि श्वाविधि तु द्वयोः । शाण्डिलस्त्वृषिभेदे ना पार्वत्यां शण्डिली स्त्रियाम् ॥ १७६७ ॥
जलशुक्तौ तु शम्बूको द्वे शम्बूका तु सा स्त्रियाम् । गजस्य मुखमध्यस्य पार्श्वाभोदेशयोरथ ।। १७१८. ॥
ना सूक्ष्मे तण्डुलकणे तण्डुलस्य मलेऽपि च । शल्यकस्तु पुमाळेतखदिरे कदराये || १७६९ ॥
शल्यकी तु द्वयोर्ज्ञेया मृगभेदेऽथ शस्त्रकः । पुंसिस्यादृङ्कणक्षारे की त्वयस्यथ स द्वयोः ॥ १७७० ॥
शरभः सिंहशत्रौ स्यादष्टपात्संज्ञके मृगे। मृगान्तरे च रभसः करभे चोक्तवानमुम् ॥ १७७१ ॥