________________
२००.
नानार्थार्णपसोपे क्षेत्रयुक्त वेत्रवती पुनः श्री निम्नगान्तरे । बैदी त बियां काव्यरीतिभेदे दुरालमा ॥ १७४८ ॥ इति प्रतीतस्तम्बे च वैदर्भ त्वभिधेयवत् । विदर्भदेशसम्बन्धे वैदेही तु स्त्रियामियम् ॥ १७४९ ॥ रोचनायामपि पाह. रमसः शब्दवित्तमः । मैथिल्यामप्ति पिप्पल्यां स्याद् विदेहनृपे तु ना ॥ १७९० ॥ मर्त्यजात्यन्तरे तु द्वे वैश्यायां शुद्धजे तमा। . प्राबण्यां वैश्याते च वैतसस्तु पुमानयम् ।। १७५१ ॥ स्थात् पुस्प्रजनने त्रिस्तु विकारे वेतसस्य हि । वैदिकस्तु पुमान् ब्रमचासिणि स्यादधीतवान् ॥ १७५२ ॥ यो वेदं तत्र वेदे तु भवे स्याद् भेलिङ्गकः । बैंशाखस्तु पुमान् मन्थदण्डे माधवमासि च ॥ १७५३ ॥ अनी तु धानुष्काणा स्यात् स्थितिभेदे स चेहशः । त्रिवितस्त्यन्तरौ पादौ यत्र तत्र त्रियां पुनः ॥ १७५१ ॥ . पौर्णमास्यां विशाखाख्यनक्षत्रयुजि सा तथा । गजस्य पूर्वपादस्य नखादूवं हि सप्तधा ॥ १७५५ ॥ कृतस्योर्ध्वस्थभागे च भेवलिङ्गं तु वैष्णवम् । विष्णुभक्ते तथा विष्णुदेवते विष्णुयोगिनि ॥ १७५६ ॥ ना तु सप्तदशारले!पस्यारभ्य मूलतः । ज्ञेयत्रयोदशेऽरत्नौ वैष्णवी तु नियामियम् ॥ १७५७ ॥ सप्तानामपि मातृणामेकस्यां स्यात् तथैव सा । नवानां विष्णुशक्तीनामेकस्यामपि नए पुनः ॥ १७५८ ॥ तवाहंसोमवर्गस्य साम्रोः प्रथमयोः स्मृतम् । वैणवस्तु द्वयोमर्त्यजातिभेदे यदुद्भवः ॥ १७५९ ॥
१. 'द' ग. च. पाठः,