________________
१९९
. व्यक्षरकाण्डे नानालिशाध्यायः। ममिहोत्री जुहोत्यब्दं तस्मिन्() वीरस्य तूझके । मेघवद् बीरहा तु स्यादुत्सन्नाग्न्यमिहोत्रिणि ॥ १७३७ ॥ पुमामिषु तु वीरस्य हन्तरि स्यादथ द्वयोः । वृषलो (द्वेऽ) भवेच्छूद्रे वृषभे तु पुमांसि तु ॥ १७३८ ॥ स्याल्लातरि वृषार्थस्य वृजिनं तु बले नपि । पापे च ना तु केशे स्यात् कुटिले त्वभिधेयवत् ॥ १७३९ ।। दृधिकस्त द्वयोः क्षुद्रजन्तौ दुण इति श्रुते । पुच्छकण्टकसंयुक्त तथा स्याच्छूककीटके ॥ १७४० ॥ सीपुंसयोस्तु खजूरसंज्ञके विपकीटके। द्राधिष्ठे वृश्चिका ना तु राशिभेदेऽपि चाष्टमे ॥ १७११॥ भौमाय सूर्यदते स्याद् या तु श्वेता पुनर्नवा । तस्यां च वेदना तु स्याज्ज्ञानेऽनुभवपीड़योः ॥ १७१२॥ अना क्लीवं तु सत्तायां भवेल्लामविचारयोः । वेणुकं गजतोत्रे क्ली वेणुका तु स्त्रियामियम् ॥ १७४३ ॥ वाघभेदे वंशसंज्ञे मर्त्यजात्यन्तरे पुनः । द्वे निषादीक्षत्रियजे वेजनस्तु पुमानयम् ॥ १७४४ ॥ भवेत् सप्तदशारनेपस्यारलिके तथा । मूलात् सप्तदशे क्ली तु भये च चलनेऽपि च ॥ १७४५ ॥ अना तु वेजयत्यर्थे वेधकं तु नपुंसकम् । लवणे सैन्धवाभिख्ये त्रि तु व्यद्धरि नए पुनः ॥ १७५६ ॥ वेधनं व्यधने स्त्री तु वेधनी या तु विश्रुता । आस्फोटनीति तत्र स्याद् वेत्रवांस्त्वभिधेयवत् ॥ १७१७ ।।
१. 'तद्वीरस्तस्य' स. ग., 'दीरस्य' ड. च. पाठः.
• 'तस्मिन् वीरस्य तूमके' इति पाठः समासः। । 'वृषलस्तुरगे रहें इति हेमचनः ।