________________
१७
ध्यक्षरकाण्डे नानालिगाध्यायः। वनोद्भवे तु त्रिप्वेतद् वलनं तु नपुंसकम् । आवर्तने स्यात् तन्त्वादेः संवृतौ चलनेऽपि च ॥ १९९९ ॥ अना तु वलयत्यर्थे वलनाथ द्वयोमंगे। हरिणादौ वत्सलस्तु त्रिपु प्रेमवति स्मृतः ॥ १६०० ॥ स्त्रियां तु वत्सला वत्सकामायां गवि नप पुनः । वल्गितं वल्गनेऽश्वानां गनिभेदेऽप्यथ त्रिषु ॥ १६०१॥ तद्वत्यथ वदालो द्वे मत्स्यमेदै यदाहयः । सहस्रदंष्ट्र इत्येष तथा मत्स्यान्तरेऽपि च ॥ १६०२ ॥ पाठीन इति यस्याख्या वैजयन्त्यां हि कीर्तिती।.. सहस्रदंष्ट्रपाठीनशन्दौ भिन्नाभिधेयकौ ॥ १६०३ ॥ वराहं मूर्ध्नि गुह्ये च हस्ते चोचाख्यभेपजे । की वराङ्गा चतुर्वर्षसुरभी स्त्री द्वयोः पुनः ॥ १६०४ ॥ वरुटः प्रामसूतस्वजातौ स्यात् क्षत्रियस्त्रियाम् । मर्त्यजात्यन्तरे व्रात्याजातेऽथो शाकटायनः ।। १६०५ ॥ निरच्यौष्ठयबकारादिमेनं तम्यार्थमाह हि । मेदं मेदो हि वैदेहान्निपाद्यां जात उच्यते ॥ १६०६ ॥ वल्लवस्तु द्वयोः सूपकारगोपालयोर्भवेत् । . वर्तकस्तु पुमानश्वखरे पक्ष्यन्तरे पुनः ॥ १६०७ ॥ वर्तिका व(ति? त)का च स्त्री त्रि तु वर्तितरि स्मृतः । वर्तनं तु तुरङ्गस्य की धूलिलुटने तथा ॥ १६०८ ॥ जीविकायां प्रवृत्ती च मुहुर्वचन एव च । व्यावर्तने कुटोपिण्डे वर्तना तु न ना भवेत् ॥ १६०९ ॥ धातोर्वतयतेरथे पिण्डीकरण एव च । स्याद् भेद्यवत् तु वर्तिप्णी वरेण्यं त्वभिधेयवत् ॥ १६१० ॥
१. 'सप्योष्टय' क. इ. च. पाठः,