________________
नानाथर्णिवसंक्षेपे
अथ पुंसि भवेन्मिश्ररसभेदेऽस्य लक्षणम् । लवणोष्णकटुस्वादुतिक्तात्मत्वं त्रिषु त्वदः ॥ १५८७ ।। तद्वति स्यात् तथैवायं वलजातेऽपि ना पुनः । रज्जौ वराटः पद्मस्य बीजकोशेऽप्यधीयते ॥ १५८८ ॥ खड्भेदेऽपि चैरण्डबीजाभपुलकावलौ । नीचेऽथ द्वे कपर्दाख्यजलजन्तौ त्रिषु त्वयम् ॥ १५८९ ॥ . सेवकेऽथ वरालो ना मिश्रवर्णान्तरे भवेत् । सितपिङ्गाणरूपेऽथ तद्वति त्रिषु सा पुनः ॥ १५९० ॥ वराला हंसकान्तायां स्त्री भैषज्यान्तरे तु नः । । वमनस्तु पुमान् वृक्षे विज्ञेयोऽकोठसंज्ञके ॥ १५९१ ॥ छर्दनार्दनयोस्तु स्यात् क्लीत्येवं रभसोऽपठीत् । वयःस्था तु स्त्रियां बासीकाकोल्यामलकीषु च ॥ १५९२ ॥ सूक्ष्मैलायां हरीतक्या तरुणे त्वभिधेयवत् । व्यलीकस्त्वप्रिये पुंसि स्यादकार्ये च ना पुनः ॥ १९९३ ॥ पीडायां च विलक्षे चाप्यपराधे विपर्यये । केचित् त्वाहुर्भेयलिङ्गमप्रिये व्यञ्जनं पुनः ॥ १५९४ ॥ कीवं श्मश्रुणि निष्ठाने चिहावयवयोरपि । व्यनक्त्यर्थेऽथ ना यज्ञपशुसंस्कारकर्मणि ॥ १५९५ ॥ अखी हलसमाख्येषु वर्णेषु स्यादथाखियाम् । बलयं कटके ना तु महोदर्यास्यमुस्तके ॥ १९९६ ॥ तथा पश्चिमराश्यर्थे वनजं तु नपुंसकम् । स्यादुत्पलपमेदे हि कंसोत्पलमिति श्रुते ॥ १९९७ ॥ पने च स्त्री तु वनजा मुद्गपाहयौषधौ । रमसस्त्वाह पुलिङ्गं मुस्तके शब्दवित्तमः ॥ १९९८ ॥
-
1. 'म्ल' ग. पाठः, २. 'हये।' च., 'बये।' क. पाठ; .स. पाठः
३. 'ते' क. पा. ४. .