________________
व्यशरकाण्डे मानालिङ्गाध्यायः ।
मनःशिलायां काम्बिल्यसंज्ञवृक्षे च ना पुनः ।
रोचनः कूटशल्मल्यां रोचनं तु नपुंसकम् ॥ ११२९ ॥ रोचत्यर्थे रोचयतेः पुनरर्थे न ना मता ।
रोचना रोहितस्तु स्याद् वृषभे रक्तवर्णके ॥ १९३० ॥ रक्ते च वर्णे त्रिस्तु स्यात् तद्वदर्थे यदा तदा । तत्रापि स्यात् स्त्रियां वृत्ती रोहिता रोहिणीति च ॥ १९३१ ॥ द्वयोस्तु मत्स्यभेदे स्यान्मृगभेदे च यो मृगः । स्याच्छ्रुतराजिमांस्तत्र शाश्वतस्तु ब्रवीत्यमुम् || १९३२ ॥ ऋश्यसंज्ञमृगे स्त्री तु. रोहिणी सुरभौ स्मृता । urush रक्तवर्णायां रोहितं तु नपुंसकम् ।। १५३३ ॥ स्याहजी शक्रचापे च तृणे च क्की तु रोदनम् । रुदितेऽश्रुणि च स्त्री तु दुःस्पर्शे रोदनी स्मृता ॥ ११३४ ॥ रोहन्तस्तु पुमान् वृक्षे रोहन्ती तु स्त्रियामियम् । लतायां भेद्यवत् तु स्याद् रोहतादिति कर्तरि ॥ १५३५ ॥ रोचकस्तु पुमान् हस्तिकर्ण इत्यतिविश्रुते ।
कम्बलस्य प्रभेदे स्यात् त्रि तु रोचितरि स्मृतः ॥ १५३६ ॥ रोषाणस्तु पुमान् स्वर्णकषणग्राणि पारदे ।
रोषणे भेद्यवत् प्रोक्तो रोषशीलो हि रोषणः ॥ १५३७ ॥ ऊषणे रभसः प्राह तस्य मूलं विचिन्त्यताम् । रोमशस्त्वृषिभेदे ना निम्बवृक्षेऽप्यथ द्वयोः ॥ १५३८ ॥ मेषे स्याल्लोमशे तु त्रि स्त्रियां तु रभसोदिता । काकजङ्घासहामेदामांसीषु पुनरप्ययम् ॥ १५३९ ॥
१. 'ष' म. पाठः.
. १८१
§ 'अथ कूटशाल्मलौ' । रोचनः (पृ. ५२ छो. ९१ ) इति तु वैजयन्ती । * रोषाणो रोषणे हेमवर्षे पारद ऊषरे' इति तु हेमचन्द्रः ।