________________
अथ यक्षरकाण्डः।
स्त्रीलिङ्गाध्यायः। अथ स्त्रियां भवान्याः स्युः सर्वाः संज्ञाः क्षुमाहये । धान्ये रात्रेहरिद्रायां भूमेमनाख्यभेषजे ॥ १॥ मातुस्तु गवि पेषण्यां पार्वत्यां चाथ योषितः । प्रियवृक्षेऽथाम्बा स्याज्ज्येष्ठस्वसरि मातरि ॥२॥ वाचां मध्यमिकानां स्यात् सप्तानामेकवाचि च । अर्चा पूजाप्रतिमयोरत्ता-वश्रां च मातरि ॥ ३ ॥ नाट्योक्तविषये ज्येष्ठभगिन्यामिति केचन । नाट्योक्तावेव वृद्धायां वेश्यायामिति सज्जनः ॥ ४ ॥ अप्वा नद्यां भये रागेऽप्यभ्वा तु व्योमतोययोः । अश्रिस्तु कोट्यां धारायामष्ठी तु स्यात् फलास्थनि ॥ ५ ॥ जानुकूपरयोरस्भोरन्दूस्तु गजशृङ्खले ।। पादभूषणभेदे च स्यादास्था त्ववलम्बने ॥ ६ ॥ प्रतिज्ञायनतात्पर्यगोष्ठीषु स्यादथापरे । आहा कण्ठे कथायां चेत्याहुराहा तु नामनि ॥ ७ ॥ कण्ठे चेत्यपरेऽथाजिरु*त्कृष्टा लिङ्गभेदतः । आप्तिः प्रत्ययितत्वे स्याल्लाभसम्बन्धयोरपि ॥ ८ ॥ आलिमर्थनये विद्यात् सेतो सख्यां तथैव च । आवलावप्यथालूः स्याद् योनिव्याधी वनस्पतौ ॥ ९ ॥ टिट्टिभाख्यखगे चात् पुनर्यागादिकर्मणाम् । कल्पे च परिपाट्यां च साम्नो गायत्रसंज्ञिनः ॥ १० ॥ द्वितीयपादगीत्यां च तृतीयार्चिकपर्वणोः । आवृत्तावपि चाथाशीर्हिताशंसाहिदंष्ट्रयोः ॥ ११ ॥ १. 'क' ख. पाठ:. . * उत्कर्षश्च नानालिङ्गाध्याये वोध्यः ।